SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्य, विषयेषु परामदेयदण्डेन, या दि ११ मा ३ भम्भेरी एतेषु सर्वचैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठा विधिवढ्यधात् ॥१॥ अर्चार्थमेषां चैत्यानामारामान् पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिर्ददौ ॥२॥ ततोऽस्मद्देयदण्डेन, युष्माभिर्निजनीवृति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ॥ ३॥ इति प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः॥४॥ गुर्जरो १ लाट २ सौराष्ट्र ३ भम्भेरी ४ कच्छ ५ सैन्धवः ६ । उच्चा ७ जालन्धरः ८ काशिः ९ सपादलक्ष ४|१० इत्यपि ॥५॥ अन्तर्वेदि ११ मरु १२ मेंदपाटो १३ मालवक १४ स्तथा । आभीराख्यो १५ महाराष्ट्र १६ कर्णाटः १७ कुङ्कणो १८ऽपि च ॥६॥ देशेष्वष्टादशस्वेषु, चौलुक्यनृपकारिताः। विहारा रेजिरे मूर्ताः, स्वकीर्तिप्रकरा इव ॥७॥ त्रिभिर्विशेषकम् ॥ श्रेयः पल्लवयन्तु वो भणितयः श्रीहेमसूरिप्रभोः श्रुत्वा क्षितिवासवेन विहिते निश्शेषजीवावने । पक्षच्छेदभयं विहाय कुहरादम्भोनिधेर्निर्गतैः, स्थानस्थानविहारमूर्तिमिषतः शैलैर्धराऽलङ्कृता ॥१॥ इत्थं चतुर्दशशतप्रमितान् विहारान् , नव्यान् विचित्रशुभविम्बविराजमानान् । निर्माप्य पोडशसहस्रमितांश्च जीर्णोद्धारान् नृपो निजरमा सफलीचकार ॥२॥ अथ जिनागमसमाराधनतत्परेण राजर्षिणेकविंशतिर्ज्ञानकोशाः कारापिताः । त्रिषष्टिशलाकापुरुषचरित्राणि श्रोतुमिच्छता च श्रीगुरूनभ्यर्थ्य नवीनं शलाकापुरुषचरित्रं षट्त्रिंशत्सहस्रमितं काराप्य सुवर्णरूप्याद्यक्षरैलेखयित्वा स्वावासे नीत्वा रात्रिजागरणप्रातःपट्टगजेन्द्राधिरूढधृतानेकातपत्रकनकदण्डद्वासप्ततिचामरोपवीज्यमानादिमहोत्सवपरम्परापूर्वक CONCLOCACACMCANCARNAS Jan Education International For Private Personal Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy