________________
CR
कुमारपाल
MC-
प्रवन्धः।
O SAROKALCHALCCASCALCA
|लोकोत्तरां पश्यन् विस्मयहृतचित्तो यावदास्ते तावन्नेपालदेशनृपप्राभृतमेकविंशत्यङ्गलमितं चन्द्रकान्तमणिविम्वं श्रीपा
वस्य तत्रागात् ॥ तद्विम्बं चन्द्रबिम्बाभ, पश्यतो नृपतेर्मुहुः। अमोदिषातामुचितं, कुमुदे इव लोचने ॥१॥ तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् । देहि मह्यमिदं चैत्यं, यथैतां स्थापयाम्यहम् ॥२॥ एवं राजानमालोक्य प्रार्थनापरं लोकाः प्राहुः
क्वापि जैनेन्द्रधर्मस्य, महिमा न हि मात्यहो । यदेवं याचते भूपो, मन्त्रिणं विनयान्वितः॥१॥ तदनु हृष्टो मन्त्री महाप्रसादोऽयमिति सविनयं विज्ञपयन् श्रीकुमारविहारोऽस्त्वयमिति राजाज्ञया कारितवान् चतुविशतिजिनालयं तं प्रासादमष्टापदोपमम् । यदुक्तम्
"कणयामलसारपहाहिं पिंजरे जंमि मेरुसारिच्छे । रेहति केउदंडा, कणयमया कप्परुक्ख व ॥१॥
पासस्स मूलपडिमा, निम्मविया जत्थ चंदकंतिमई । जणनयणकुवलउल्लासकारिणी चंदमुत्ति व ॥२॥ अन्नाउवि बहुयाओ, चामीयररुप्पपित्तलमईओ। लोयस्स कस्स न कुणंति विम्हयं जत्थ पडिमाओ ॥३॥” इति ॥5
चैत्यशुकनाशे छिद्रे कृते पूर्णेन्दुकरसङ्गमादमृतरसः श्रवति स्म । तेन दिव्यौषधायमानेन चाक्षुपतापादिदोषाः शाम्यन्ति स्म । यदुक्तं कविना श्रीपालेन
"स्तम्भैः कन्दलितेव काञ्चनमयैरुत्कृष्टपट्टांशुकोल्लोचैः पल्लवितेव तैः कुसुमितेवोच्चूलमुक्ताफलैः। सौवर्णैः फलितेव यत्र कलशैराभाति सिक्ता सती, श्रीपार्श्वस्य शरीरकान्तिलहरी लक्षेण लक्ष्मीलता ॥१॥"
REMCALCCORRECACHECK
॥९५॥
Jan Education Intemano
For Private 3 Personal Use Only