SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ "सुखिनि सुखनिषेको दुःखितानां विनोदः, श्रवणहृदयहारी मन्मथस्याग्रदूतः। नवनवरसकर्ता वल्लभो नायिकानां, जयति जगति नादः पञ्चमस्तूपवेदः॥१॥" तत्रायातान् श्रीहेमसूरीन् नादस्वरूपादि पृष्टवांश्च । सूरयोऽप्याहु: सप्तस्वरमयं गीतं, ते स्वरास्त्रिविधा मताः। सचेतनकृताः केऽपि, केऽपि निश्चेतनोद्भवाः॥१॥ स्वराश्चोभयजाः केचित् , मुख्यास्तेषु च देहजाः। यतः"सप्तस्वरस्त्रयो ग्रामाः, मूर्छनाश्चैकविंशतिः। ताना एकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥१॥ षड्जर्षभौ च गान्धारो, मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च, ते स्वराः सप्त नामतः॥२॥ कण्ठोरस्तालुरसनानासाशीर्षाभिधेषु च । षट्सु स्थानेषु जातत्वात् , षड्जः स्यात् प्रथमः स्वरः ॥ ३ ॥ कण्ठात्संजायते पडूजः, ऋषभो हृदयोद्भवः । गन्धारस्त्वनुनासिक्यो, मध्यमो नाभिसंभवः ॥४॥ उरसः शिरसः कण्ठात्सञ्जातः पञ्चमः स्वरः । ललाटे धैवतं विन्द्यान्निषादः सर्वसन्धिजः॥५॥ सप्तस्वराणामुत्पत्तिः, शरीरे परिकीर्तिता।" तथा"सज रवइ मऊरो, कुक्कडो रिसह सरं । हंसो वयइ गंधारं, मज्झिमं च गवेलका ॥१॥" अह"कुसुमसंभवे काले, कोइला पंचमं सरं । छठं च सारसा कोंचा, नेसायं सत्तमं गया ॥१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy