SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कुमारपाल दि द्रव्यसप्तशतसैन्धवतुरङ्गमपरिवृतां श्रीकुमारपालस्य परनारीसहोदरशरणागतवज्रपञ्जरनिःसीमसाहसरूपसौन्दर्यादिगुणान् द प्रबन्धः। श्रुत्वा सञ्जातदृढतमानुरागां स्वयंवरायातां श्रीकुमारः परिणीतवान् । तथा मूलस्थाने मूलराजनृपेण सह महान् युद्धविस्तरः । एवं दिग्यात्रां कृत्वाऽनेका द्रव्यकोटीरादाय एकादशलक्षतुरगैकादशशतगजेन्द्रपञ्चाशत्सहस्ररथद्वासप्ततिसामन्ताष्टादशलक्षपदातिरूपसैन्यपरिवारितः श्रीपत्तनमलञ्चकार । यदुक्तं श्रीवीरचरित्रे दिग्विजयप्रमाणं श्रीकुमारभूपतेः___ "आगङ्गमैन्द्रीमाविन्ध्य, याम्यामासिंधुपश्चिमाम् । आतुरष्कं च कौबेरी, चौलुक्यः साधयिष्यति ॥१॥" अन्यदा राजसभासीनं नृपं कोऽपि वैदेशिकगन्धर्वो मुषितोऽस्मीति तारं बम्बारवं कुर्वाणः केन मुषितोऽसि ? इति राज्ञा पृष्टः, मम गीतकलयाऽतुलया सामीप्यमुपेयुषा कौतुकार्पितगलस्वर्णशृङ्खलेन नश्यता मृगेणेति विज्ञपयामास । ततो राज्ञाऽचिन्ति नूनमयं कोऽपि वैदेशिको गीतकलाकौतुकी स्वां कलां दर्शयितुमत्रागत इति । निजो गन्धर्वकलाधुरन्धरः सोल्लाभिधः समादिष्टस्तदानयनाय । सोऽपि च तत्कालमेव तदवीमटन्तं परमोत्कर्षप्राप्तस्फीतगीतकलया व्यामूळे सकनकशृङलं मृग नगरान्तरे राजसभायामानीय भूपतेः समर्पयामात । ततस्तत्कलातिशयेन चमत्कृतो भूपः प्रभूतं पारितोषिकं दत्त्वा गीतकलाया अवधि पप्रच्छ । सोल्लाकः शुष्कदारुणः पल्लवप्ररोहावधि विज्ञप्तवान् । तर्हि कौतुकं दर्शष इत्यादिष्टोऽर्जुदगिरेविरहनामानं वृक्षमाक्षेपादानाय्य तस्य शुष्कशाखाखण्डं राजसभायां कुमारन्तिकायां कृप्तालवालं ॥३६॥ शुद्धमल्हाररागालपितगीतमूर्छनासमूर्छितप्रोल्लसत्पल्लवं कृत्वा राजानं सपरिकर तोषयामास । द्वादशग्रामान पारितोषिक दत्त्वा चिन्तितवान् , अहो ! नादमहिमा महीयान् । यतः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy