SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ३७ ॥ सज्जं तु अग्गजिन्भाए, उरेण रिसहं सरं । कंडुग्गएण गंधारं, मज्झजिभाइ मज्झिमं ॥ २ ॥ नासाए पंचमं बूया, दंतुद्वेण य धेवयं । मुद्धाणेण य नेसायं, सरद्वाणा विआहिया ॥ ३ ॥ " सत्तसरा अजीवनिस्सिया पन्नत्ता । तंजहा— "सज्जं रवइ मुअंगो, गोमुही रिसह सरं । संखो नदइ गंधारं, मज्झिमं पुण झलरी ॥ १ ॥ चउचलणपइडाणा, गोहिया पंचमं सरं । आडंबरो अ धेवयं, महाभेरी अ सत्तमं ॥ २ ॥” " गीतं नादात्मकं वाद्यं, नादव्यक्त्या प्रशस्यते । तद्वयानुगतं नृत्यं, नादाधीनमतस्त्रयम् ॥ १ ॥ ये चक्रिणः स्युर्निधयो नवैषु, शङ्खाभिधानो नवमो निधिर्यः । तूर्याणि नाद्यानि सनाटकानि सर्वाणि तत्रैव समुद्भवन्ति ॥ २ ॥” इति जैनमते तूर्यत्रिकोत्पत्तिः । लोके तु हरात्सङ्गीतादिनिष्पत्तिः ॥ सूडादिवन्धक्रमरीतिविद्यो, रागेषु तालेषु महाप्रगल्भः । गीते रसे चापि विशेषविज्ञो भवेत्स भूपालसभावतंसः ॥ १ ॥ इत्यादि सूरिपार्श्वे श्रुत्वा मुदितः श्रीकुमारपालोऽनाहतनादस्वरूपं पप्रच्छ । सूरिरप्याह यत्प्रोक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यः स्मृतः । तन्मध्ये संस्थितः प्राणः प्राणो वह्निसमुद्भवः ॥ १ ॥ वह्निमारुतसंयोगान्नादः संजायते हि यः । सोऽनाहतो भवेन्नादो बिन्दुभेदकरो ध्रुवम् ॥ २ ॥ घण्टानादो यथा प्रान्ते प्रशाम्यन् मधुरो भवेत् । अनाहतोऽपि नादोऽथ तथा शान्तो विभाव्यताम् ॥ ३ ॥ स नादः सर्वदेहस्थो नासाग्रे तु व्यवस्थितः । प्रत्यक्षः ससर्वभूतानां दृश्यते नैव लक्ष्यते ||४|| तावदेवेन्द्रियाण्यत्र कषायास्तावदेव हि । अनाहते मनोनादे यावल्लीनं न योगिनः ||५|| Jain Education International For Private & Personal Use Only प्रबन्धः । ॥ ३७ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy