SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ७४ ॥ Jain Education जगद्धर्माधारं सगुरुतरतीर्थाधिकरणस्तदप्यर्हन्मूलं स पुनरधुना तत्प्रतिनिधिः । तदावासश्चैत्यं सचिव ! भवतोद्धृत्य तदिदं समं स्वेनोदध्रे भुवनमपि मन्येऽहमखिलम् ॥ १ ॥ एवं सकलश्रीसङ्घैः स्तूयमानः सचिवसिंहः पत्तनं प्राप्तः श्रीकुमारपालनृपं तदुदारकृत्यैरानन्दयामास || अथ विश्वविश्वैकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्री भृगुपुरे श्रीशंकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्तापुरे नर्मदासान्निध्याद कस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ । अधःपातेऽप्यक्षताङ्गी निस्सीम तत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः । का त्वम् ? इत्यपृच्छत्, अहमस्य क्षेत्रस्याधिष्ठात्री तव सत्त्वपरीक्षार्थमेतन्मया कृतम् ॥ स्तुत्यस्त्वं वीरकोटीर !, यस्येदृक् सत्त्वमुत्कटम् । नोचेज्जने घनेऽप्येवं, मृते त्वद्वत्रियेत कः ? ॥ १ ॥ एते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्नकार्यः । कुरु स्वकार्यमित्याद्युक्त्वा देवी तिरोऽधत्त । मत्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः । ततो देवीनां भोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधादिमूर्तयश्च लेप्यमय्यः कारिताः ॥ विक्रमाद्व्योमनेत्रार्कवर्षे १२२२ हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमम्बडः ॥ १ ॥ प्रतिष्ठार्थं श्रीकुमारपालनृपहेमाचार्य सकलश्रीसङ्घानामाकारणम् । महामहैः श्रीसुव्रतप्रतिष्ठा मल्लिकार्जुनकोशीयश्री कुमारपालप्रसादितद्वात्रिंशत्स्वर्णघटीमित कलश है मदण्डपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कपवेशात्प्रासादमूर्ध्नि चटित्वा स्वर्णरलोत्करान् ववर्ष ॥ For Private & Personal Use Only प्रबन्धभ ॥ ७४ ॥ jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy