SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ S प्रबन्धः । A कुमारपाल दनमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बमेकाकी पत्तने ययौ ॥६॥ तत्र श्रीकृष्णदेवेन भग्नीकान्तेन गौरवात् । नीत्वा स्वसदनं सम्यक् सच्चके सपरिच्छदः॥७॥ भम्या प्रेमलदेव्याऽथ कुमारे स्नापिते स्वयम् । तस्य स्नानजले सस्नौ दुर्गा कृतवरस्वरा ॥८॥ तदा कुमारः प्राह-मम पश्यसि चेद्राज्यं देवि ! ज्ञाननिधे! ततः । उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ९॥ वचनानन्तरं साऽपि तथैवाधादतिस्फुटम् । 'तूं राजु' इति संरावं तच्चेतःसौधदीपकम् ॥ १० ॥ शकुनं तत्तथा प्रेक्ष्य कश्चित् शाकुनिकोऽब्रवीत् । सप्तदिन्या कुमारैतद्राज्यं भावि तव ध्रुवम् ॥ ११॥ एवमस्त्विति तद्वाक्यमूरीकृत्य स कृत्यवित् । विद्वांसमिव सच्चक्रे तं द्रव्यादिप्रदानतः ॥ १२॥ इति निःशेषसामन्तामात्यसभ्यैकमत्यतः।। उभी राजसुतावन्यौ कुमारं तं च सत्तमम् ॥ १३ ॥ स्नपितालङ्कृतान् कृत्वा दिव्याश्वानधिरोप्य च । अमात्यैः सममानैषीत्कृष्णदेवो नृपालयम् ॥ १४ ॥ युग्मम् ॥ __ततः परीक्षार्थ प्रथमः कुमार आनीतः, सचिवान्नत्वोवाच किं करोमीति । ततः प्रथममेव यः किं करोमीति पृच्छति स कथं राज्यकर्ता ? इति निषिद्धः। द्वितीयस्तु श्रस्तवस्त्राञ्चललोचनो विवृताङ्गः शून्य इव सिंहासनमाश्रितः॥ आवरीतुं न शक्नोति निजमप्यङ्गमेककम् । आवरीता कथमयं सप्ताङ्गं राज्यमूर्जितम् ॥१॥ इति विचार्य सोऽपि निषिद्धः । तदनु कुमारपालमादिक्षन् । सोऽपि कृपाणं पाणिना धुन्वन् विकसन्मुखः स्कन &ायन्यस्तसंव्यान अर्द्धसमीरणं गृहीत्वा सिंहासनमलश्चकार । अत्रावसरपाठकः ___ "न श्रीः कुलक्रमायाता, शासने लिखिता न च । खङ्गेनाक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा ॥१॥" ***** ॥३३॥ Jain Education a l For Private 8 Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy