________________
इति श्रीचौलुक्यनृप ! राज्ञस्तृतीयव्रतपालनं कथम् ? इत्युक्ते सूरिभिः राजा प्राह
निष्पुत्रो नियते यो यस्तस्य तस्य हताशयाः। पुत्रतां प्रतिपद्यन्ते, नृपाः कष्टं धनाशयाः॥१॥ तदद्यप्रभृति मुक्तमेव मया मृतसर्वस्वम् , भवतु मे तृतीयव्रताङ्गीकारः संसारतारणायेति प्रतिपद्य राजपर्षदि सर्वसामन्तादिसमक्षं पञ्चकुलमाकार्य पृष्ट्वा च प्रतिवर्षे द्वासप्ततिलक्षद्रव्यायपदं ज्ञात्वा संतोषपोषितात्मा रुदतीवित्तं मुक्तवान् , पाटितं च पट्टकपत्रम् । तथा
निःशूकैः शकितं न यन्नृपतिभिस्त्यक्तुं क्वचित्प्राक्तनैः, पत्न्याः क्षार इव क्षते पतिमृतौ यस्यापहारः किल ।
आपाथोधि कुमारपालनृपतिर्देवो रुदत्या धनं, बिभ्राणः सदयं प्रजासु हृदयं मुञ्चत्ययं तत्स्वयम् ॥१॥ इति मृतस्वपरिहारपटहो दापितोऽष्टादशदेशेषु । अथान्यदा सर्वावसरसभामुपेयुषि श्रीचौलुक्यदेवे प्रतीहारः प्राह-देव! महाजनो द्वारे तिष्ठति देवदर्शनार्थी । राजा-प्रवेशय सद्यः। ततः प्रतीहाराहूताश्चत्वारो महत्तरा आगत्य राजानं प्रणम्य लब्धासना वैलक्ष्योपलक्षिता उपविष्टाः । राजा-को हेतुरद्य राजसभाऽऽगमे ? किमिदं वैलक्ष्यमिति । किं कोऽपि पराभवोऽसमाधिोपद्रवो वा कोऽपि ? । तदनु महाजनाः-कुतः प्रजानां राजेन्द्र !, त्वयि शासति मेदिनीम् । पराभवोऽसमाधिर्वा, जायते जनवत्सल !॥१॥ कदाचिदन्धकारः स्याद्विश्वे भास्वति भास्वति । परं त्वदुदये स्वामिन् !, न किञ्चिदसमञ्जसम् ॥२॥ परमत्रत्यो गूर्जरनगरवणिग्मूर्धन्यः कुबेरश्रेष्ठी देवपाद विदितो बहुस्वर्णकोटिध्वजः समुद्रे समागच्छन् कथाशेषतया स्वामिपादानामसेवकतामगादिति तत्परिच्छदो निष्पुत्र आक्रन्दन्नस्ति । तद्गृहद्रव्यं राजा यद्यात्मसात्कुरुते
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org