SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विधाय न्यायसंग्राम मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाव्यास्य ययुर्गिरौ ॥१॥ यावता तत्र शृङ्गे देहसंस्कारं कुर्वन्ति तावता व्योमवाणी प्रादुरभूदेवम् । तथाहि___ "अत्र भीष्मशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं तु, कर्णसंख्या न विद्यते ॥१॥" श्रीराजन् ! एतद्भारतवाक्यं ज्ञात्वाऽस्माभिः पाण्डवानां मुक्तिर्व्याख्याता । शत्रुञ्जये नाशिक्यपुरे चन्द्रप्रभप्रासादे च। तेषां मूर्तयश्च सन्ति । एवं सति केऽपि जैनाः पाण्डवा बभूवुः । एतद्धेमसूरिवचः श्रुत्वा राज्ञा प्रोक्तम् , भो विप्राः! वदतात्रोत्तरम् । अयं जैनर्षिः सत्यवादी, भवन्तस्तु मिथ्याभिमानाद्यत्तत्पलापिन एव । ततो राज्ञा श्रीसूरयः पूजिताः स्वस्थानमलङ्कार्षः । लोके महती प्रभावनाऽभूत् । इत्थं स्वगोभिर्जयसिंहदेव-संदेहसंदोहतमांस्यपास्यन् । उज्जम्भयन् जैनमताम्बुजन्म, श्रीहेमसूरिःशुशुभेस भास्वान् ॥१॥ एकदा कर्णमेरुप्रासादादलमानेन राज्ञा रात्रौ कस्यापि धनिनो गृहे बहून् दीपान् दृष्ट्वा तद्धेतुं जिज्ञासुना प्रातराकार्य पृष्टः श्रेष्ठी । त्वद्हे केन हेतुना बहवो दीपाः? । तेनोक्तम् , देव! मम गृहे चतुरशीतिलक्षाः स्वर्णस्य सन्ति, एकैकलक्षस्यैकैको दीपो दीप्यते । एतदाकर्ण्य राज्ञा प्रजावत्सलतया अग्ने विश्वासः। यतः| "पासा १ वेसा २ अग्गि ३ जल ४, ठग ५ ठक्कुर ६ सोनार ७।ए दस न हुई अप्पणां, मंकड ८ बडूअ९ बिडाल १०॥१॥" इति प्रोच्य षोडशलक्षान् स्वकोशाद्दापयित्वा स धनी कोटीध्वजः कृतः । श्रीसिद्धराजस्य द्रविणस्यैका कोटिः द्र प्रतिवर्ष पुण्यव्यये । येन राज्ञा स्वमातुः श्रीमयणल्लदेव्याः पुण्यव्यये बाहलोडग्रामे यात्रिकलोककरो द्वासप्ततिलक्ष Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy