SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपालयन्ति । तत्र च सुधोपमवचस्तोमा-ऽऽकृष्टमानसवासनाः । शुश्रूषवः समायान्ति, तत्र दर्शनिनोऽखिलाः॥१॥ ॥१५॥ तत्र च पाण्डवाधिकारे पाण्डवानां प्रव्रज्या श्रीशत्रुञ्जये मुक्तिगमनादि श्रीप्रभुभिः सदसि व्याख्यातं श्रुत्वा विप्रा मत्सराध्माताः श्रीजयसिंहनृपाग्रे इदं प्रोचुः, हे राजन् ! एते श्वेताम्बराः शूद्रा यत्तन्मृषाभाषिणो व्याख्यापर्षदि समग्रदर्शनसमक्ष पाण्डवानां श्रीभारते श्रीकेदारगमनशम्भूपासनादिप्रोक्तमुत्थापयन्ति । एवं चानौचित्याचारप्ररूपणेन धर्मद्वे |षिणो राज्ञा निवारणीया एवेति विप्रोक्तं श्रुत्वा राज्ञोक्तम् , भो विप्राः! न हि नृपाः सहसाऽमृश्यविधायिनः स्युः । हेमसूरयोऽपि मुनीश्वराः सर्वसंगत्यागिनो न हि प्राणान्तेऽपि मृषा वदन्ति, परं प्रातराकार्य ज्ञास्यते । ___ एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि । आजुहाव ततो राजा हेमचन्द्रमुनीश्वरम् ॥१॥ राज्ञा समग्रसामन्तराजगुरुपुरोहितादिप्रत्यक्षं पाण्डवानां मुक्तिगमनादिस्वरूपं पृष्टम् । सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः। हिमादिगमनं तेषां महाभारतमध्यतः॥१॥ परमेतन्निजानीमो ये नः शास्त्रेषु वर्णिताः। त एव व्यासशास्त्रेऽपि संकीर्त्यन्तेऽथवाऽपरे ॥२॥ राजाह तेऽपि बहवः पूर्व जाताः कथं मुने! । अथोवाच गुरुस्तत्र श्रूयतामुत्तरं नृप!॥३॥ भारते युद्धं कुर्वता गाङ्गेयेन स्वपरिच्छदाग्रे एवमुक्तम्, प्राणमुक्तौ मम तनुसंस्कारस्तत्र कार्यः, यत्र कोऽपि प्राग्दग्धो| स्यात् । तत: in Education Intematon For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy