________________
"न विद्यया केवलया, तपसा चापि पात्रता । यत्र वृत्तमिमे चोभे, तद्धि पात्रं प्रचक्ष्यते ॥१॥" इति महाभारतोक्तसंवादेन प्राहुः। अन्यदा सिद्धपुरे रुद्रमहालयप्रासादे निष्पद्यमाने आभूमन्त्रिणा च चतुर्मुखश्रीराजविहाराख्यश्रीमहावीरप्रासादे कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोकनार्थमायातः। चतुर्दारेषु पित्तलमयश्रीजिनमूर्तीनां पादतलेषु नवग्रहान्मूर्तिमतो दृष्ट्वा पप्रच्छ, कोऽत्र विशेषः । श्रीहेमसूरिभिः प्रोचे, राजन् ! महेश्वरस्य भाले चन्द्रः, श्रीजिनेन्द्रस्य पादान्तेऽपि नवापि ग्रहा मूर्तिमन्तो भवन्तीति विशेषः। श्रीसिद्धराजो न मन्यते । ततो वास्तुविद्याविदः पृष्टाः । तत्र सामान्यलोकानां गृहद्वारं पञ्चशाख, राज्ञः सप्तशाख, रुद्रादिदेवानां नवशाख, श्रीजिनस्यैकविंशतिशाखं द्वारम् । अन्यदेवप्रासादे एक एव मण्डपः, अष्टोत्तरशतं मण्डपा जिनप्रासादे । चतुर्दारेषु प्रत्येक सप्तविंशतेः सप्तविंशतः सद्भावात् । जिनस्य छत्रत्रयं सिंहासनं पद्मासनं, पदाधो नव ग्रहाः। यदुक्तम्
"प्राकारमण्डपच्छत्र-पर्यङ्कासनपद्धहैः । निर्दोषदृष्टिमूर्त्या च, देवो नैव जिनात्परः ॥१॥
आदिशक्तिर्जिनेन्द्राणा-मासने गर्भसंस्थिता । सहजा कुलजा ध्याने, पद्महस्ता वरप्रदा ॥२॥" अन्यदेवानां चेत्कश्चित्कारयति सूत्रधारश्च करोति तदा द्वयोर्विघ्नमुत्पद्यते, नान्यथा, वास्तुविद्यासर्वज्ञभाषितत्वात् ।। एतदाकर्ण्य प्रमुदितः श्रीजयसिंहदेवः स्वयं श्रीराजविहारे सौवर्णकलशाधिरोपणादिकमकारयत् ।
महालयो महायात्रा महास्थानं महासरः। यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् ॥१॥ अथैकदा श्रीहेमसूरयः सिद्धनृपोपरोधात्पत्तने चतुर्मासी स्थिताः । श्रीचतुर्मुखाख्यजिनालये श्रीनेमिचरित्रं व्याख्यान
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org