SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ७९ ॥ लोभाभिभूतो हि त्रिभुवनमपि मनोरथैराक्रमति || संख्या विधीयते यत्र, शक्त्या भोगोपभोगयोः । भोगोपभोगमानं तत्स्याद्वितीयं गुणव्रतम् ॥ ३० ॥ सकृत्सेवोचितो भोगो, ज्ञेयोऽन्नकुसुमादिकः । मुहुः सेवोचितस्तूपभोगः स्वर्णाङ्गनादिकः ॥ ३१ ॥ इदं व्रतं भोग्य परिमाणेन भोगायोग्यवर्जनेन तु पालनीयमिति वर्जनीयान्याह - द्वाविंशतिरभक्ष्याणि, सूत्रोक्तानन्तकायिकाः । वर्ज्यान्येतानि विज्ञाय, सम्यग् दूरे दयालुना ॥ ३२ ॥ आर्त रौद्रं च दुर्ध्यानं, हिंसोपकरणार्पणम् । पापाचारोपदेशश्च प्रमादपरिषेवणम् ॥ ३३ ॥ सर्वोऽप्यनर्थदण्डोऽयं, वृथा कल्मषकारणात् । अपाकरणमस्य स्यात्, तातींयकं गुणव्रतम् ॥ ३४ ॥ त्यक्तसावद्यकर्तव्यदुर्ध्यानस्य शरीरिणः । समता या मुहूर्तं स्यात् सा सामायिकमुच्यते। ।। ३५ ।। यदागमः "सावज्जजोगविरओ, तिगुत्तो छसु संजओ । उवत्तो जयमाणो, आया सामाइयं होइ ॥ १ ॥ आओ माए परदुक्ख अकरणं रागदोसमज्झत्थं । नाणाइतियं तस्सायपोसणं भावसामइयं ॥ २ ॥” दिग्aतप्रमितेरह्नि, निशि यच्चाल्पनं पुनः । देशावकाशिकं तत्स्याद्वतं सुकृतकारणम् ॥ ३६ ॥ उपलक्षणात्प्रहरादौ यत्र तत्रारम्भपरिहाररूपं देशेऽवकाशं गृह्णाति । पूर्व दिग्नते बहूनि योजनानि मुत्कलानि कृतानि तानि देशावकाशिके त्वपसारयति । हविषाद्वाशयोजनानि दृग्विषयो विद्यावता न्यूनीकृतो योजनमात्रं स्थितः । यथा वा शरीरस्थं विषमगदबलेनाङ्गुल्यां स्थाप्यते । एवं विवेकिना यावत्कथिकदिग्नतादिने दिनेऽपसारयितव्यम् । एवं सर्वत्रतेष्वपि ये नियमाः स्थापितास्ते पुनः १२ पुनर्दिवारात्रौ अपसारयितव्याः । यथा ॥ ७९ ॥ Jain Education International प्रबन्धः। For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy