SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ॥८४॥ हारपि । विमुञ्चन् संतोषात्तदपि रुदतीवित्तमधुना, कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥२॥ अपुत्राणां धनं| गृह्णन् , पुत्रो भवति पार्थिवः । त्वं तु संतोषतो मुञ्चन् , सत्यं राजपितामहः ॥ ३ ॥ इत्थं श्रीगुरुणा नरेश्वरशतैराशास्य४/मानो मुदा, निराभिरनेकधा च सकलैलोकैः स लोकोत्तरः। लक्षाणां द्रविणस्य रेणुवदिह द्वासप्ततिं वर्जयन्,18 प्रत्यब्दं स्तुतिभाजनं न हि भवेत्कस्य प्रशस्यात्मनः॥४॥ चतुर्थव्रते परदारगमनवर्जनरूपे स्वदारसंतोषरूपे च ॥ यः स्वदारेषु सन्तुष्टः, परदारपराङ्मुखः । स गृही ब्रह्मचारित्वाद्यतिकल्पः प्रकल्प्यते ॥१॥ मनसाऽपि परेषां यः, कलत्राणि न सेवते । स हि लोकद्वये देव!, तेन वै सा धरा धृता ॥२॥ तस्माद्धर्मार्थिना त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥ ३ ॥ इति श्रुत्वाधिगतपरमार्थः श्रीराजर्षिराजन्माङ्गीकृतपरनारीसहोदरव्रतः स्वदारसंतोषव्रती जातः । अतः परं पाणिग्रह-| णनियमः । श्रीचौलुक्यनृपेण धर्मशाप्तेः पूर्व वह्वोऽपि राजकन्याः परिणीताः, परं धर्मप्रतिपत्त्यवसरे तासां स्वल्पायुष्वादेकैव भूपलदेवी पट्टराज्ञी बभूव । तदवसरे विवाहनियमी ॥ जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुण्णं, जत्तिय बंभवए धरिए ॥१॥ IN॥८४॥ एकराव्युषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा ऋतुसहस्रेण, कर्तुं शक्या युधिष्ठिर ! ॥२॥ इति स्वपरसमयज्ञः सर्वदा ब्रह्मचर्याभिलाषी वर्षासु मासचतुष्टये त्रिधा शीलपालनं प्रतिपन्नम् । तत्र मनसा भङ्गे| PRECACANCareCho t Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy