________________
क्षपणम्, वचसाऽऽचाम्लं, कायेन विकृतित्यागः । यदुक्तम् —
"एका भार्या सदा यस्य, त्रिधा शीलं घनागमे । नव्यपाणिग्रहे नियमश्चतुर्थव्रतपालने ॥ १ ॥
कियता कालेन भोपलदेवी परासुरजायत । तदनु द्वासप्ततिसामन्तमन्त्रिवर्गो विज्ञपयति, श्रीचौलुक्यकुलाधार ! प्रजावत्सल ! अनुगृह्यतां पुनः पाणिग्रहमहोत्सवेन स्वसेवकजनः । राजा - अलममुना संसारवृद्ध्युपायेन पाणिग्रहाग्रहेण, भवतु मेऽतः परं यावज्जीवं ब्रह्मचर्य सर्वव्रततपोनियमादिक्रियाकलापसाफल्यकारि । यदागमः -
" जेण सुद्धचरिएण वयाणि दाणाणि तवोनियमाईणि सुचरियाणि भवंति" इति ॥
सामन्तादयः - राजन् ! पट्टराज्ञीं विना कथं मङ्गलोपचारा राज्ञो जायन्ते, न ह्यन्यलोकवद्भुमीधवा गृहिण्युपचारव जिताः श्रुता दृष्टा वा । राजा - अहो ! राजन्याः ! श्रीगाङ्गेयः पितामह आजन्माऽकृतपाणिग्रह एव सकलमहीपाल मौलिमौलीयिताज्ञः किं विस्मृतिपथमानीयते ?, तद्भोः ! सम्प्रति ममापि यावज्जीवं ब्रह्मव्रतोच्चारमहोत्सवः कर्तुमुचितः । इत्यादिधर्मवचोयुक्त्या पर्यवसाप्य सकलसामन्तादिलोकसमक्षं महता महेनाबालब्रह्मचारिश्रीहेमाचार्य श्रीमुखेन ब्रह्मत्रतमङ्गीकृतवान् । तदनु मन्त्रिभिः समग्रराजधर्ममङ्गलोपचारारात्रिकमङ्गलप्रदीपकरणावसरे स्वर्णमयीं भोपलदेवीं निर्माप्य सा राज्ञः पार्श्वे स्थाप्यते ॥ अयं राजर्षिरित्याह्वां प्राप्तप्रौढिं वितन्वतः । अजिह्मब्रह्मलीनस्य, चौलुक्य ! तव कः समः १ ॥ १ ॥ इत्युपश्लोकितः पुण्यश्लोको लोकोत्तरैर्नरैः । श्रीकुमारनृपः शुद्ध श्रद्धालुर्जयताच्चिरम् ॥ २ ॥
॥ पञ्चमव्रतेऽपरिमितपरिग्रहप्रत्याख्यान पूर्वमिच्छापरिमाणप्रतिपत्तिरूपे
क० १५
Jain Educati n International
For Private & Personal Use Only
www.jainelibrary.org