SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ कुमारपाल 64-%20% प्रवन्धः । MOSAMACHAR एनः केन धनप्रसक्तमनसा नासादि हिंसात्मना, कस्तस्यार्जनरक्षणक्षयकृतैर्नादाहि दुःखानलैः। तत्प्रागेव विचार्य वर्जय चिरं व्यामूढ ! वित्तस्पृहां, येनैकास्पदतां न यासि विषये पापस्य तापस्य च ॥१॥ संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥२॥ इत्यादिगुरुवचःश्रवणतः पापभीरुतया यदधिकं स्वर्णादि भवेत्तद्धर्मस्थाने नियमितपरिग्रहवता सुखेन व्ययीक्रियत इति मतिमान् श्रीपरमाहत एवं कृतवान् परिग्रहप्रमाणं पूर्व दृष्टश्रुतपूर्वमहापुरुषपरिग्रहानुसारतः । यथा-स्वर्णकोटयः पट, रूप्यकोटयोऽष्ट, महाहमणीनां सहस्रतुला । अपरद्रव्यकोटयोऽनेका एव-कुम्भखारीसहस्र द्वे, प्रत्येक स्नेहधान्ययोः। पञ्च लक्षाश्च वाहानां, सहस्रं चोष्ट्रहस्तिनाम् ॥ १॥ अयुतानि गवामष्टी, पञ्च पञ्चशतानि च । गृहापणसभायानपात्राणामनसामपि ॥२॥ एकादशशतानीभाः, रथाः पञ्चाऽयुतप्रमाः। हयैकादशलक्षाश्च, पत्त्यष्टादशलक्षकाः ॥३॥ एतत्सैन्यमेलापकप्रमाणम् । सर्वप्रकारैः पापव्यापारनिवृत्तिमिच्छोस्तस्य श्रीधर्मात्मनोऽपरवस्तूनां प्रमितिः किमुच्यते ? ये केचन लवणतिललोहगुल्यादिपापद्रव्यागमास्तेषां नियम एव ॥ रत्नस्वर्णादिवस्तूनां, सत्यां वृद्धावनेकधा । स्वल्पं परिग्रहं चक्रे, धर्मात्मा पञ्चमव्रते ॥ १॥ अपि च "सर्वः कोऽपि परिग्रहं बहुतरं ह्याशापिशाचीहतः, संप्रत्यत्र करोति सौवविभवात्प्रायः सतोऽनेकधा । यस्तु स्वर्णधनादि भूरि सदपि प्रोज्झाञ्चकार स्वयं, संतोषात्स कथं कुमारनृपतिर्न स्यात्प्रणम्यः सताम् ॥१॥" जगच्चेतश्चमत्कारिपञ्चाणुव्रतधारकः। परमार्हतभूमीशश्चिरं जीयात् कुमारराट् ॥१॥ ACHELORE ॥८५ Jain Education in I For Private Personal Use Only Jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy