SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठते दियात्राविरतिरूपे - चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य, सद्व्रतं गृहिणोऽप्यदः ॥ १॥ विवेकाद्भुत पुरुषेण सर्वदाऽपि जीवदयानिमित्तं दिग्गमननिवृत्तिर्विधेया, विशेषतश्च वर्षासु । यतः - “दयार्थं सर्वजीवानां, वर्षास्त्रेकत्र संवसेत्” पुरा श्रीनेमिजिनोपदेशात् श्रीकृष्णनृपोद्वारकाया बहिर्निर्गमनियमं कृतवान् । इत्यादि श्रीगुरूपदेशं सफलतां नयन् श्री चौलुक्योऽपि मया वर्षामासचतुष्टये श्रीपत्तनपुरप्रतोलीभ्यः परतो न गन्तव्यमिति नियमं जग्राह । तथा — दर्शनं सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ॥ १ ॥ वाचा युधिष्ठिरः श्रीमान्, निजमङ्गीकृतं व्रतम् । न तत्तत्याज चौलुक्यसिंहः कार्ये महत्यपि ॥ २ ॥ स तस्य नियमः सर्वत्र तादृग् पप्रथे । अथ तं तथाऽभिग्रहं गूर्जरसमृद्धिं च चरेभ्यो ज्ञात्वा गूर्जरदेशभञ्जनाय गर्जनेशः शकानेकानीकदुर्द्धरः प्रयाणमकरोत् । तदवसरे गर्जन्यागतचरैर्विज्ञतम् — श्रीचौलुक्य ! तवाभिग्रहं श्रुत्वा गर्जनप्रभुर्देशादिभङ्गं चिकीर्षुरागच्छन्नस्तीति चरविज्ञप्तिं श्रुत्वा चिन्ताक्रान्तोऽमात्यसहितो वसतिमभ्येत्य गुरुमब्रवीत् — चरैरद्य प्रभो ! प्रोक्तं, तुरष्काधिपतिः स्वयम् । प्रस्थाय गर्ज - नादत्रागच्छन्नस्ति महाबली ॥ १ ॥ सहिष्णुरपि तं भङ्कुमसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्यभिग्रहात् ॥ २ ॥ यद्यहं संमुखं न यामि तदा देशभङ्गे लोकपीडा, गमने च नियमोल्लङ्घनम् । गुरुः- श्रीचौलुक्य ! त्वदाराधितधर्म एव सहायी तव, चिन्ता सर्वथाऽपि न कार्या ॥ इत्याश्वास्य नृपं सूरिः, पद्मासनमधिश्रितः । परमं दैवतं किश्चि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy