________________
राजः सर्वदर्शनेषु स्वस्तुतिपरनिन्दापरेषु शुद्धधर्मादिजिज्ञासया श्रीहेमसूरीन् पप्रच्छ, को धर्मः संसारपारदः ? इति । सूरयोऽपि सर्वदर्शनाविसंवादेन पुराणोक्तं शङ्खाख्यानं वदन्ति स्म । यथा
शङ्खपुरे शङ्खश्रेष्ठी । यशोमती भार्या । कालेन तस्यां निःस्नेहोऽपरां स्त्रियमूढवान् । नवीनपत्नीवशीकृतो यशोमत्याः संमुखमपि न विलोकयति । दूना यशोमती चिन्तयति —
"फोडी नामु जु सीयली विसह जु महुरं नाम । सउ किहि नाम जु बहिनडी ए तिन्निवि खयजाउ ॥ १ ॥
वरं रङ्ककलत्रत्वं, वरं वैधव्यवेदना । वरं नरकवासो वा मा सपत्नीपराभवः ॥ २ ॥”
एकदा कंचिगौडदेशागतं कलावन्तं बहुभक्त्याऽऽवर्ज्य तत्पार्श्वे पुरुषपशुकरणक्षमं किंचिदौषधं गृहीत्वा भर्त्रे भोजनान्तर्दत्तवती । तेनौषधेन भुक्तमात्रेण शङ्खो वृषभोऽजनि । तदनु ज्ञाततद्वृत्तान्तैर्लोकैर्निन्द्यमाना तत्प्रतीकारमजानाना स्वं दुश्चरितं शोचयन्ती कदाचिन्मध्यंदिने दिनेश्वरखरतरकरनिकरप्रसरताप्यमानाऽपि शाङ्खलभूमिषु तं पतिवृषं चारयन्ती कस्याऽपि तरोस्तले विश्रान्ता निर्भरं विललाप । दैवात्तदा विमानाधिरूढो गौर्यान्वितः शिवो नभसा गच्छन् तद्विलापान् शुश्राव | गौर्याऽपि संजातकृपया पृष्टस्तद्दुःखकारणं प्राह शिवः, भवज्जातेर्विलसितमेतत्, यन्मर्त्योऽपि जातोऽनवान् । ततः स्वरूपं सर्व कथितम् । गौर्या प्रोक्तम्, तदौषधं किमप्यस्ति ? येनायं पुनः पुरुषो भवेत् । अतिनिर्बन्धे एतस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं निवेद्य जगामाग्रतो महेशः । ततश्च तदीश्वरवचनं श्रुत्वा यशोमत्याऽपि तदीयां छायां रेखाङ्कितां कृत्वा तन्मध्यवर्तिन औषधाङ्कुरानुच्छेद्य वृषभवदने सर्ववल्लीतृणादि क्षिप्तम् । अज्ञातस्वरूपे -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org