SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ | देवलदेवीं तोपयामास । प्रहिताऽप्यभिमानेन प्रेयोधाम जगाम न । तप्यमाना तपः किन्तु सा तस्थौ बन्धुसन्निधौ ॥ १ ॥ ततः सर्वावसरे तं विक्रमसिंहमाकार्य द्वासप्ततिसामन्तसमक्षं हक्कयित्वा मलैः सज्जीकृत्य कारागारे निक्षिप्तवान् । तद्राज्याधिपं तस्य भ्रातृव्यं यशोधवलनामानं कृतवांश्च । अथैवं निष्कण्टकं राज्यं कुर्वन् देवतावसरेऽनेक सामन्तमन्त्रिमहामन्त्रि सार्थवाहादिपरिवृतः श्रीजयसिंहदेववृद्धमन्त्रिणः पप्रच्छ, यदहं श्रीसिद्ध नृपतेहींनः समानोऽधिको वा ? मन्त्रिभिरछलप्रार्थनापूर्व सिद्धनृपतेरष्टनवतिर्गुणाः, द्वौ दोषौ, स्वामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः, इति मन्त्रिवाक्यादनुदोपमये आत्मनि विरागं दधानो यावच्छुरिकायां चक्षुः क्षिपति तावत्तदाशयवेदिभिस्तैरेवं व्यज्ञपि, श्रीकुमारपालनरेन्द्र ! अस्माभिर्बहिर्वृत्त्या विचार्यैवमुक्तं, परं तत्त्ववृत्त्या तु देव एवाधिकः । राजा, कथम् ? मन्त्रिभिरुक्तम्, सिद्धनृपतेरष्टनवतिर्गुणाः संग्रामाऽसुभटतास्त्रीलम्पटतादोषाभ्यां तिरोहिताः । कार्पण्यादयो देवदोषास्तु समरशूरतापरनारी सहोदरतागुणाभ्यामपहृताः, इति देव एव सर्वगुणशिरोमणिः सत्त्वपरस्त्रीवान्धवतादिगुणाधार इति मन्त्रिवचः श्रवणसंतोषितान्तरात्मा देवतावसरं कृतवान् । अथाऽन्यदा सर्वावसरस्थिते श्रीचौलुक्यदेवे केनापि विदुषा पठितः श्लोको भूपमुद्दिश्य । यथा— “ पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये, जीव्यते न तु भूपतौ ॥ १ ॥” वाक्यमिदमाकर्ण्य ' राज्ञो मेघ उपम्या' इति श्रीकुमार भूपेनाभिहिते सर्वव्याकरणेषु अपप्रयोगे सर्वेष्वपि सामाजिकेषु न्युञ्छनानि कुर्वाणेषु मन्त्रिकपर्दी लज्जयाऽधोमुखो जातः । राजा तं तथा ज्ञात्वा पृष्टवान् । विज्ञप्तं तेन, देव! 'उपम्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy