SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सौन्दर्यवर्यगाम्भीर्य-प्रज्ञाबुद्धिगुणोत्तमे । राजक्षमे क्षेमराजे कों, राज्यं न वाञ्छति ॥१॥ राम इव क्षेमराजः, स्मृत्वा भाषां पितुस्ततः । कर्ण महोपरोधेन, स्वयं राज्ये न्यवीविशत् ॥२॥ अथ भोगी कर्णः, इति लोके ख्यातस्य तस्यैका राज्ञी मयणल्लदेवी, तस्या एवं स्वरूपम् । यथा-कर्णाटदेशे जयकेशी राजा, तस्य सुता मयणल्लदेवी कुरूपा ।सा चान्यदा पितुः पार्श्वस्था सदसि सोमेश्वरयात्रिकैः सोमनाथयात्रास्वरूपे कथ्यमाने पूर्वभवमस्मार्षीत् । यदहं पूर्वभवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्यापने दत्वा सोमनाथयात्राकृते वजन्ती बाहुलोडनगरं प्राप्ता । तत्र तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमाना चाहमागामिभवेऽस्य करस्य मोचयित्री भूयासमिति कृतनिदाना विपद्य राज्ञः सुता जाता। तदनु जातिस्मरणवती बाहुलोडकरमोचनाय गूर्जरेश्वर श्रीकर्ण वरं कामयमाना पितुः स्वरूपं निवेदितवती । जयकेशिराज्ञा श्रीकर्णाय दत्ता । स च तस्याः कुरूपतां निशम्य तस्यां मन्दादरोऽभूत् । जनकेनापि एतज्ज्ञात्वा स्वसुतायास्तस्मिन्नेव निर्बन्धपरतां च विज्ञाय तामेव स्वयंवरामेककोटिस्वर्णद्विसहस्रजात्यतुरङ्गमबहुप्रधानादिप्रौढसामय्या पत्तने प्राहिणोजयकेशिनृपः । अथ गुप्तवृत्त्या श्रीकर्णस्तस्यास्तादृक्कुरूपतां स्वयं विभाव्य तत्परिणयने निरादरोऽजनि । ततस्तया साक्षादिक्कन्याभिरिव मूर्तिमतीभिरष्टाभिः सखीभिः सह नृपतये खहत्याप्रदानाय राजद्वाराग्रेऽग्निप्रवेशमहः प्रारब्धः। अथ श्रीकणमात्रा श्रीउदयमतीराझ्या तासां विपदं द्रष्टुमक्षमया ताभिः सह प्राणत्यागसंकल्पश्चक्रे । यतः "स्वापदि तथा महान्तो, न यान्ति खेदं यथा परापत्सु । अचला निजोपहतिषु, प्रकम्पते भूः परव्यसने ॥१॥" ACCCCCCCORDAR in Educat internet For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy