SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥४॥ इति मातुः कदाग्रहादेवानिच्छुनापि श्रीकर्णेन सा परिणिन्ये।महाजनकृतमातुलकरणीया परिणीय परित्यक्ता दृग्मात्रेणापि न संभावयति । अन्यदा गीतगायनमातङ्गयाः सरूपाया राज्ञोऽभिलाषे सति मातङ्गीरूपं कारयित्वा सैव मयणल्लदेव्यमात्यैः श्रीमुञ्जालादिभिः सदृशवयोरूपवेषयुक्ता प्रेषिता। ततः पश्चात्तापेसद्भावे प्रोक्ते राजा हृष्टः। तत्कुक्षिसंभवो जयसिंहदेवः पुत्रो जातः। स त्रिवार्षिकः सन् राजसिंहासनं स्वयमलंचक्रे । राज्ञा पृष्टैनैमित्तिकैर्महामुहूर्तमधुनेति कथिते जयसिंहदेवस्य राज्याभिषेकः कृतः।। | पालयत्यन्यदा राज्यं जयसिंहे नरेश्वरे । चचाल देवयात्रायां कर्णः कर्ण इवापरः॥१॥ श्रीदेवपत्तनादयंग गव्यूतैः। सप्तभिः स्थितः। प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् ॥२॥ यथा पापक्षयं हारं चन्द्रादित्याख्यकुण्डले । श्रीतिलकमङ्गदं च परिधाय समाहितः॥३॥ यदा सोमेश्वरं देवं पूजयिष्यामि भक्तितः। भोक्ष्ये तदाऽशनं पानं ताम्बूलमपि नान्यथा ॥ ४ ॥ स्नात्वा प्रभासे श्रीकर्णो यदाऽयाचत भूषणम् । कोशाध्यक्षस्तदा स्माह नादिष्टं स्वामिभिस्ततः ॥५॥ आभरणं पत्तनेऽस्थाद्विषण्णश्च ततो नृपः। तदा मदनपालाख्यो मण्डलीकोऽब्रवीदिति ॥६॥ मा विषीद महाराज ! मन्त्रसिद्धिधरा यतः। मया सन्ति सहानीताः श्रीधनेश्वरसूरयः॥७॥ ततोऽभ्यर्थनया राज्ञस्तैरणहिल्लपत्तनात् । आकृष्टिमन्त्रेणाकृष्याभरणं तत्समर्पितम् ॥ ८॥ संपूर्णाभिग्रहो राजा प्राह सूरिवरं प्रति । युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् ॥ ९॥ गृहाण तदिदं राज्यमित्युक्तः सूरिरब्रवीत् । रक्ष जीववधं राजन् ! नवरात्रद्वयेऽपि हि ॥१०॥ तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः। चकार वामनस्थल्यां सज्जनं दण्डनायकम् ॥ ११॥ ततो मदनपालेन विज्ञप्तः कर्ण ततो नृपः। तदा मदनपालाख्यो कोशाध्यक्षस्तदा स्माह नादिष्ट वा पानं ताम्बूलमपि मन्त्रसिद्धिधरा यतः । म ॥८॥सणीधनेश्वरसूरयः ॥ण्डलीकोऽब्रवीदिति गादिष्ट स्वामिभिस्ततः मलमपि Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy