SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ NAGAR भूपतिः । सार्ध धनेश्वराचारारूढो रैवताचलम् ॥ १२॥ श्रीनेमिभवन जीर्ण वीक्ष्य काष्ठमयं ततः। सज्जनो गुरुणाRऽदिष्टो जीर्णोद्धारकृते कृती ॥ १३ ॥ सजनोऽपि स्वगुरुभिः श्रीभद्रेश्वरसूरिभिः । चतुर्विधेन सडेन सार्द्ध राजानमन्वगात् ॥ १४ ॥ यतः"जिणभवणाई जे उद्धरंति भत्तीए सडिअपडिआई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥१॥" अथवा"अप्पा उद्धरिउ च्चिअ, उद्धरिओ तेहिं तह य निअवंसो। अन्ने अ भविअसत्ता, अणुमोअंता य जिणभवणं ॥१॥ माणिक्यहेमरत्नाद्यैः, प्रासादान कारयन्ति ये । तेषां पुण्यैकमूतींनां, को वेद फलमुत्तमम् ? ॥२॥ काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, तत्कर्ता स्वर्गभाग भवेत् ॥३॥" युक्तमिदमुपदेशकथनं साधूनाम् । यतः"रायाअमच्चसिठ्ठीकुटुंबिए वावि देसणं काउं। जिण्णे य जिणाययणे, जिणकप्पी वावि कारवइ ॥ १॥" तथा"नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥१॥" जीर्णोद्धाराय विज्ञप्तः सजनेन नृपस्ततः । सुराष्ट्रोद्भाहितं दत्वाऽणहिल्लपुरमाययौ ॥ १५ ॥ अथ भद्रेश्वरसूरिः सजनेन सहाष्टमम् । तपः कृत्वाऽम्बिकादेवीमाह्वानयददीनधीः ॥ १६ ॥प्रत्यक्षीभूय साऽप्यूचे युवाभ्यां किमहं स्मृता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy