SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तथा जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यविधापनम् । यदाह "सन्मृत्तिकामलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥ ६ यः कारयेत्तीर्थकृतः प्रतिष्ठां, प्राप्स्यत्यसौ तीर्थकृतः प्रतिष्ठाम् । यदुप्यते यद्विधमेव बीजमवाप्यते तत्तदवस्थमेव ॥२॥" जो कारवेइ पडिमं, जिणाण जिअरागदोसमोहाणं । सो पावइ अन्नभवे, भवमहणं धम्मवररयणं ॥३॥ तथा "पासाईया पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निजरमो वियाणाहि ॥१॥" तथा-- "बिम्बानि श्रीजिनेन्द्राणां मणिरत्नैश्च हेमभिः । रूप्यैः काष्ठदृषद्भिर्वा मृदा वा चित्रकर्मणा ॥१॥ एकाङ्गुष्ठादिसत्सप्तशताङ्गुष्ठमितानि यः । कारयत्यत्र भावेन, सर्वपापैः प्रमुच्यते ॥२॥ मेरोर्गुरुर्गिरिनान्यः, कल्पद्रोन परो दुमः । न धर्मो जिनबिम्बानां, निर्माणादपरो गुरुः ॥३" धनादिव्ययशक्ती पञ्चशतधनुःप्रमाणाः प्रतिमाः कार्यन्ते । सर्वथाऽपि धनाद्यप्राप्तावेकाङ्गुलमपि बिम्बं कारितं मुक्तिसुखायापि ॥ यतः "अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्द्धिसुखानि भुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः॥१॥" REACOCCALCOCCAR Jain Education International For Private & Personel Use Only ____www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy