SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ८८ ॥ एतस्मिन् पालिते एकादशव्रतानि सम्यक् पालितानि भवन्ति । सर्वपापाश्रवनिरोधहेतुरेतद्व्रतं महाफलं चेति विभाव्य | राज्ञः पर्वसु पौषधग्रहणम् । नियमेन गृहीते च पौषधे क्षपणम् । रात्रौ शयननियमः । गुरूणां विश्रामणा । अप्रमार्जनचङ्क्रमणोद्धारमुख भाषणादिनिषेधः । प्रायो रात्रौ कायोत्सर्गः । तदशक्तौ दर्भासनस्थः प्राणायामप्रणयी ॥ नेत्रद्वन्द्वे श्रवणयुगले नासिकाऽग्रे ललाटे, वक्रे नाभौ शिरसि हृदये तालूनि भ्रूयुगान्ते । ध्यानस्थानान्यमलमतिभिः कीर्त्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषयं चित्तमालम्बनीयम् ॥ १ ॥ इति ध्यानस्थाननिवेशनिश्चलचेता एकासनस्थ एव तिष्ठति नृपतियोगीन्द्रः ॥ देहोपध्यादिनिस्सङ्गवृत्तिः पौषधमग्रहीत् । सर्वपर्वसु राजेन्द्रः, सदा नियमपूर्वकम् ॥ १ ॥ ॥ द्वादशमेऽतिथिसंविभागत्रते । अतिथिश्चारित्री । यतः - “तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयात्, शेषमभ्यागतं विदुः ॥ १ ॥” तस्य संविभागो न्यायागतकल्पनीयान्नपानादिवस्तूनां देशकाल श्रद्धा सत्कारपूर्वकं दानम् । राज्ञां तु तदसंभवि, राजपिण्डस्य यतीनां निषिद्धत्वात् । इत्येतत् श्रुत्वा श्रीपरमार्हतः पप्रच्छ श्रीगुरून्-भगवन् ! मम द्वादशव्रतं कथं भावि ? यदुत यतयः संसारतारका मदन्नपानादि न गृहीष्यन्ति । किञ्च - साहूण कप्पणिज्जं ञं नवि दिन्नं कहिं पि किञ्चि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुञ्जन्ति ॥ १ ॥ तत्कथमहं सुश्रावकः ? एवं च सति मयि कृपामवधार्य मद्गृहे यतयोऽन्नादि गृह्णन्तु । गुरुभिरूचे - श्री चौलुक्य ! न Jain Education International For Private & Personal Use Only प्रबन्धः ॥ ८८ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy