SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टमव्रतेऽनर्थदण्डविरमणेचतुर्धाऽनर्थदण्डः, तद्यथा-अपध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरणानि ४, एतानि चाचरतो मुधा | पापवृद्धिरिति न सेव्यानि विवेकिनेति ज्ञात्वा सप्तव्यसननिषेधं सर्वत्र कारितवान् । स्वयं प्रमादक्रीडाहास्योपचारदेहातिसंस्कारविकथाकरणादिविवर्जनपरो जाग्रद्धर्मध्यानामृताम्बुधिमग्न एवाजनि श्रीकुमारभूजानिः॥ सप्तव्यसनवित्रासी, दुर्थ्यानाविषयस्थितिः । राजर्षिरत्यजत्सर्वानर्थदण्डमदण्ड कृत् ॥१॥ नवमं सामायिकवतं सावद्ययोगपरिवर्जनं निरवद्ययोगासेवनम् । तस्मिन् व्रतेराज्ञो द्विःसामायिककरणं नियमेन कृते च सामायिके मौनमेव श्रीगुरून् विनाऽन्यैः सह ।पाश्चात्यरात्रिसामायिके द्वादशप्रकाशयोगशास्त्रविंशतिवीतरागस्तवगुणनं विना नापरकार्यकरणम् । सामायिक प्रतिलेखितवस्त्रप्रमार्जितदेशप्रौञ्छनादिशुद्धसामाचारीपूर्वकमेव न यथा तथा ॥ इतो रागमहाम्भोधिरितो द्वेषदवानलः । यस्तयोर्मध्यमः पन्थास्तत्साम्यमिति गीयते ॥ १॥ एवं साम्यसुधास्वादसुहितात्मा महीपतिः। सामायिकपरो जज्ञे, संलीनकरणस्थितिः॥२॥ ॥ दिग्वतगृहीतदिग्परिमाणस्य प्रतिदिनं परिमाणकरणं देशावकाशिकव्रतम्तत्र श्रीपरमाहतस्य रात्रौ स्वगृहान्तरेऽवस्थितिः न बहिर्गमनम् । दिवाऽपि प्रायः श्रीजिनालयशालागमनं विना राजपाट्यादिभ्रमणनिषेधः ॥ जन्तुजातदयोल्लासी, मितक्षेत्रकृतस्थितिः। संलीनात्मा कृपानाथो, दशमव्रतमादधौ ॥१॥ एकादशवते आहारशरीरसत्कारब्रह्मचर्यअव्यापाररूपचतुर्विधपौषधोपवासरूपे an intematon For Private Personal use only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy