SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ स्वर्ग यान्ति यदि त्वया विनिहिता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः? ॥१॥" इत्यादि श्रीहेमसूरिवाक्यामृतसिक्तहृदयः श्रीचौलुक्यो वेदोक्तमार्गस्याऽप्रमाणत्वममन्यत । इत्थं राजसभायां विविधेषु विचारेषु जायमानेषु राजा श्रीजिनधर्म सत्यतया मन्यमानः सर्वदर्शनसमक्षं सर्वसंवादेन देवगुरुधर्मस्वरूपं पप्रच्छ । तत्र सर्वेऽपि दर्शनिनो यथाज्ञातस्वस्वागमाचारविचारं देवादिस्वरूपं प्राहुः । तत्र देवतत्त्वे नाट्याट्टहाससङ्गीतरागद्वेषप्रसादजगत्सृष्टिसंहारपालनशस्त्र स्त्रीपरिग्रहादिसमग्रसांसारिकजन्तुजातसाधारणगुणे निरूप्यमाणे राज्ञा पृष्टा हेमाचार्या ऊचुः, श्रीचौलुक्यराज! शृणु ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्य पूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥१॥ सर्वज्ञस्यैव देवत्वं, नापरस्य । यतः___ “यो विश्व वेदवेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा, पौर्वापर्याऽविरुद्धं वचनमनुपमं निष्कलङ्क यदीयम् । तं वन्दे साधुवन्धं सकलगुणनिधिं ध्वस्तदोषद्विषं तं, बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥१॥" राजन् । सर्वज्ञत्वमपि सकलदोषरहितत्वेनैव साध्यम् । दोषाश्चाष्टादश सामान्यतः। तद्यथा"अन्नाण १ कोह २ मय ३ मा-ण ४ लोह ५ माया ६ रई अ ७ अरई अ ८। निद्दा ९ सोअ १० अलियवय-ण ११ चोरिआ १२ मच्छर १३ भयाई १४ ॥१॥" पाणिवह १५ पेम १६ कीडा १७, पसंगहासा य १८ जस्स इइ दोसा। अट्टारसविपणठ्ठा, नमामि देवाहिदेवं तं ॥२॥” तथा"रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु, मानः परपराभवे ॥१॥ लोभः पदार्थसंप्राप्तौ, माया Jain Education International For Private & Personel Use Only w.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy