SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ५० ॥ च परवञ्चने । गते मृते तथा शोको, हर्षश्चागतजातयोः ॥ २ ॥ अरतिर्विषयग्रामे चाशुभे च शुभे रतिः । चौरादिभ्यो भयं चैव, कुत्सा कुत्सितवस्तुषु ॥ ३ ॥ वेदोदयश्च संभोगे, विलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्यामृतमुज्जृम्भते तदा ॥४॥” * एवं सति – “मुञ्चध्वं पक्षपातं भवत गुणवति स्नेहला मा स्वशास्त्रेष्वेवाश्वासं दधीध्वं विमृशत विशदीकृत्य चेतः क्षणार्द्धम् । ज्ञातं वस्तावदार्याः शमदमसमतासूनृताद्यागुणालीकाङ्क्षा कन्दर्पदर्पानृतकलिकपटान्येष दोषप्रपञ्चः ॥ १ ॥ अमी गुणाश्च दोषाश्च, कं सामस्त्येन भेजिरे । जिनं तदितरं वापि, स्वयमेव विचिन्त्यताम् ॥ २ ॥ प्रत्यक्षतो न भगवान् ऋषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसंप्रभावाज्ज्ञात्वा विचारयत कोऽत्र परापवादः ॥ ३ ॥” राजन् ! बहुनोक्तेन किम् । य एव सांसारिकभावविपरीतवृत्तिः स एव देवो, नान्यः । यदुक्तम् “यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्ष्यन्तां कृतधियस्तदेव देवलक्षणम् ॥ १ ॥ क्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मृदुधियां, वीतरागः कथञ्चन ॥ २ ॥” श्री चौलुक्यराज ! एवं विधे निर्दोषेऽपि श्रीजिनेन्द्रदेवे यत्परप्रवादा मत्सरिणः स्युः, तत्स्वशासनानुरागेण परशासनाभिभवाभिमानस्य विजृम्भितम् । यदाह श्रीसिद्धसेनदिवाकरः “हितयुक्तमनोरथोऽपि संस्त्वयि न प्रीतिमुपैति यत्पुमान् । अतिभूमिविदारदारुणं, तदिदं मान कलेर्विजृम्भितम् ॥ १ ॥” ॥ ५० ॥ इति वीतरागः सर्वज्ञो देवः ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ १ ॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युर्न मुक्तये ॥ २ ॥ Jain Education International प्रबन्धः । For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy