SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ रुदेवां श्रीशान्तिजिनं कपर्दियक्षादींश्च सर्वोपचारपूजादिभिरभ्यर्च्य प्रथमप्रतोलीप्रवेशे मार्गणश्रेणी पञ्चविधदानैः प्रीणयन् श्रीयुगादिदेवप्रासादद्वारं सपादसेतिकामितमुक्त्वाफलैर्वर्धाप्य प्रदक्षिणावसरे मन्त्रीश्वरवाग्भटकारितप्रासादरमणीयतां लोकोत्तरां विलोक्य प्राह पार्श्वस्थं मन्त्रिराजम् ॥ मन्त्रिन् ! महीयसां मान्यस्त्वं लोकोत्तरपौरुषः । येनेदं जगदाधारमुद्दभ्रे तीर्थमुत्तमम् ॥१॥ त्वयैव रत्नगर्भेयं, भूतधात्री प्रकीर्त्यते । अतस्त्वमग्रणीभूत्वा, यात्रासाहाय्यमातनु ॥२॥ इत्थं प्रशंसितो राज्ञा, मन्त्री नम्रशिराः पुरः। राज्ञोऽभवदत्तहस्तो, वेत्रिवन्मार्गदर्शकः॥ ३ ॥ अथ प्रदक्षिणावसरे सरसाऽपूर्वस्तुतिकरणार्थमभ्यर्थिताः श्रीहेमसूरयः सकलजनप्रसिद्धां 'जय जन्तुकप्प' इति धनपालपञ्चाशिका पेठः । राजादयः प्राहुः-भगवन् ! भवन्तः कलिकालसर्वज्ञाः परकृतस्तुतिं कथं कथयन्ति ?, गुरुभिरूचे-राजन् ! श्रीकुमारदेव ! एवंविधसद्भूतभक्तिगर्भा स्तुतिरस्माभिः कर्तुं न शक्यते । एतन्निरभिमानश्रीगुरुवाक्यामृतोल्लासितस्वान्ता नृपादयस्तामेव स्तुति भणन्तो राजादनीतरुतले प्राप्ताः श्रीगुरुभिरिति ज्ञापिताः । यथा__यदधः समवासाषींद्देवो नाभिनरेन्द्रसूः । तेनेयं वन्दनीयैव, तीर्थात्तीर्थमिवोत्तमम् ॥१॥ पत्रे फले च शाखायां, प्रत्येकं देवतालयः । ततः प्रमादतोऽप्यस्याः, नोच्छेद्यं हि दलादिकम् ॥२॥ यस्य प्रदक्षिणां कर्तुः, सद्देशस्य शिरस्यसौ। क्षीरं क्षरति तस्य स्यादायतिः सुखदायिनी ॥ ३ ॥ सुवर्णरूप्यमुक्ताभिः, पूज्यते चन्दनादिभिः। ततोऽसौ क्षरति क्षीरं, सर्वविघ्नविनाशकृत् ॥ ४॥ शाकिनीभूतवेतालदुष्टज्वरविषादयः । एतत्पूजाप्रभावेण, प्रयान्ति विलयं क्षणात् ॥ ५॥ स्वयं निपतितं शुष्कमप्येतस्य दलादिकम् । गृहीतं विघ्नहृत् सर्वसुखदं पूज्यते यदि ॥६॥ यो गृहृतो मिथः सख्यमिमां Jain Education International For Private Personal Use Only Twww.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy