SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः। कुमारपाल दृश्यते संप्रति, परं श्रीहेमाचार्ये निजगुरौ कलाकौशलमीदृशं संभाव्यते न वा? इति पप्रच्छ । मन्त्र्यपि 'निजगुरौं' इत्यु- क्या हृदि हृष्टोऽभाषिष्ट, राजन् ! प्रातः शालायां गत्वा देवबोधिसर्वलोकसमक्षं पृच्छयन्ते श्रीगुरवः, इत्युक्त्वा राजोक्तं श्रीसूरये निवेद्य स्वाश्रयं भेजे । अथ प्रातः श्रीसूरिभित्तितो दूरे सप्तगब्दिकमासनमध्यास्य स्थितः। अहमहमिकया श्रीचौलुक्यद्वासप्ततिसामन्तराजगुरुपुरोधोदेवबोधिराजवार्गव्यवहारिषु सभ्येषु मिलितेषु पञ्चापि मारुतानध्यात्मविद्यावशीकृत नाडीनिरोधपवनस्थिरताभ्यासशक्त्या निरुध्य किंचिदासनादुच्छुस्य व्याख्यातुमारेभे । यथा त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः । जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्प्रमेही न भुते ॥१॥ लक्ष्मीनिविवेकसङ्गममयी श्रद्धामयं मानसं, धर्मः शीलदयामयः सुचरितश्रेणीमयं जीवितम् । बुद्धिः शास्त्रमयी सुधारसमयं वाग्वैभवोज्जृम्भितं, व्यापारश्च परार्थनिर्मितिमयः पुण्यैः परं प्राप्यते ॥२॥ इत्यादिदेशनां सर्वसाधारणां राजादिसभ्यानन्ददायिनी कुर्वतः श्रीसूरेः कश्चित्पूर्वसङ्केतितः शिष्योऽधरासनमाकृषत् । आकृष्टेऽप्यासने निराधार एव तिष्ठन् सूरिराजोऽस्खलितवचनैर्व्याख्यां कुर्वन् राजादिभिरेवं तर्कितः किं सिद्धः ? किमयं बुद्धः ?, किं विरश्चिः१ किमीश्वरः ? । अन्यथा कथमेतादृक्, शक्तिरस्य व्यवस्यति ॥ १॥ WI देवबोधरपि रम्भासनमाधार आसीत् , मौनेन कायवायवः सुजयाः स्युः, परं व्याख्यां कुर्वतोऽस्य स्थितिरतिकातुक कारिणीति लोका अहो ! महदाश्चर्य न दृष्टपूर्विणो वयं काऽपि, लोकोत्तरस्थितिरसौ गुरुश्चेत्यादिवदन्तश्च परमानन्दपू. SEARCAMER ५५॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy