________________
६० १०
अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १ ॥”
तदनु राजोवाच, हे देवबोधे ! श्रौतो धर्मो महानपि हिंसाकलुषितत्वेनाऽसर्वज्ञप्रणीतत्वेन च मम मनसि न प्रति भाति । जैनस्तु सर्वजीवदयासंवाद सुन्दरत्वेन भृशं स्वदते । पुनर्देवबोधिः, श्रीकुमारभूप ! यदि न प्रत्येपि तदा महेश्वरादिदेवान् स्वपूर्वजांश्च प्रत्यक्षमूर्तिमतोऽत्रागतान् स्वमुखेन पृच्छ, इति निगद्य मन्त्रशक्त्या तानाकृष्टवान् । ततः - ब्रह्मविष्णुहरान् मूलराजादीन् पूर्वजानपि । दृष्ट्वा पुरः स्फुरद्रूपान्, राजाऽऽश्चर्यमयोऽनमत् ॥ १ ॥ ततस्ते त्रयोऽपि देवा वेदोद्गारेण सुधामिव किरन्तो हस्तमुदस्य राजानं प्राहुः
विदांकुरु नरेन्द्राऽस्मान् ब्रह्मविष्णुमहेश्वरान् । त्रयाणां जगतां सृष्टिस्थितिसंहारकारकान् ॥ १ ॥ वयमेव स्वभक्तेभ्यः कृतकर्मानुमानतः । भवं शिवं च संचिन्त्य दद्महे छद्मवर्जिताः ॥ २ ॥
तस्माद्भान्ति मुक्त्वा देवत्वेनास्मान् श्रौतं धर्मं च मुक्तये समाचर । अस्मत्प्रतिकृतिरेवायं देववोधिर्यतीश्वरो गुरुत्वेन मान्यः, इत्युक्त्वा तिरोहिता देवत्रयी । मूलराजादयोऽपि पूर्वजाः सप्त, वत्स ! अयं श्रौतो मार्गः पूर्वजक्षुण्णो न त्याज्यो, मनागपीति कथयित्वा यथास्थानं जग्मुः ॥ ततस्तेषु प्रयातेषु, भूपो मनोऽद्भुताम्बुधौ । सोमेशोक्तं तदुक्तं च, स्मरन् जडइवाऽजनि ॥ १ ॥ तदनु देववोधिं सभां च विसृज्य राजा बुभुजे । वाग्भटमन्त्रिणा तत्कालमेव सर्वं सूरिणे निवेदितम् । सूरयोsपि, हे मन्त्रिन् ! चिन्ता न कार्येति प्रोच्य प्रातरादौ व्याख्याने समानेयो राजा त्वयेत्याहुः । अथ राजाऽपि संशयाssन्दोलितचेताः सायं सर्वावसरे समायातस्य वाग्भटमन्त्रिणोऽग्रे राज्ञा प्रोक्तम्, देवबोधेः सदृशः कोऽपि कलाशाली गुरुर्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org