SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपाल ॥ ५४॥ MACROSONAKARMA नलिनीनालसद्दण्डं, रम्भापत्रमयासनम् । आमतन्तुभिराबद्धं, वाष्पच्छेद्यैरिवाणुभिः ॥१॥ शिशूनामष्टवर्षाणां, स्कन्धन्यस्तं सुखासनम् । आरुह्य पर्षदं राज्ञो, देवबोधिः समासदत् ॥२॥ युग्मम् ॥ राज्ञाऽप्यभ्युत्थानादि कृत्वा क्वाऽयं पिचण्डलः ? वेदं कदलीपत्रासनादि ? इति विस्मितेन नमस्कृतः सुवर्णासने निवेशितश्च । सोऽपि-शङ्करः शङ्करो ब्रह्मा, ब्रह्मानन्दप्रदायकः । तुभ्यं भूयाद्रमास्वामी, रमास्वामित्वदो नृप!॥१॥ इत्याशीर्वादं दत्त्वाऽऽसनमलङ्कृतवान् । तदनु तत्तदुचिताद्भुतकलाविज्ञानाऽपूर्वप्रवन्धादिवार्तादिभिर्विस्मेरितो राजा परिवारश्च । याममात्रदिने राजा स्नात्वा शुचिचीवरानेकाभरणभ्राजिष्णु सप्ततिसामन्तश्रीउदयनवाग्भटादिमन्त्रिपरिवृतो देवतागारं देवतावसरकरणाय प्राप्तः। देवबोधिरपि वयमप्यद्य राज्ञो देवपूजाविधिं विलोकयिष्याम इत्यादिवादी राज्ञाऽऽकारितस्तत्रागात् । श्रीचौलुक्योऽपि काञ्चनपट्टे शङ्करादिदेवान् पूर्वजकारितान् स्वकारितश्रीशान्तिसौवर्णप्रतिमां |च निवेश्य गन्धोदकादिनीरैः स्नात्रं कृत्वा पञ्चोपचाराष्टोपचारादिपूजां निश्चलमनाः करोति स्म । तदवसरे जैनप्रतिमां दृष्ट्वा देवबोधिरवादीत् , राजन् ! अयुक्तं तवैतत्पूजनादि । यतःका "अवेदस्मृतिमूलत्वाजिनधर्मो न सत्तमः । अत एव न तत्त्वज्ञैः, सूरिभिः सोऽयमिष्यते ॥१॥" न युक्तं मर्यादामेरूणां स्वाङ्गीकृतनिर्वाहक्षमभुजशालिनां न्यायमुद्रातिक्रमरूपं स्वकुलाचारपरिहरणम् । यतः "नोल्लङ्घनीयाः कुलदेशधर्माः।” तथा"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मी समाविशतु गच्छतु वा यथेच्छम् । In५४॥ For Private Personal use only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy