SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ - - रिता आसन् । सूरिः प्रहरं सार्द्ध देशनां व्यधात् । अथाऽऽसनं सूरीनध्यास्य राजाह तिरोहिता सर्वकलाः कलावतां, कलाविलासैस्तव सूरिशेखर !। तेजस्विनां किं प्रसरन्ति दीप्तयः?, समन्ततो भास्वति भास्वति स्फुटम् ॥ १॥ सूरयोऽपि मम देवतावसरं पश्य राजन् ! इत्युदीर्य श्रीचौलुक्यमपवरकान्तर्निन्युः । तत्र पुराऽपि काञ्चनसिंहासनेषु निविष्टान् चतुर्मुखान् अष्टमहाप्रातिहार्यादिविराजितान् श्रीनाभेयाद्यान् चतुर्विशतिजिनेन्द्रान् चतुःषष्टिसुरेश्वरश्रेणीसंवाह्यमानपादपद्मान् चुलुक्यादीन् निजानेकविंशतिपूर्वजांश्च नानारलाभरणभास्वरान् विश्वातिशायिदेहद्युतिद्योतितदिग्मुखान् श्रीजिनाग्रे योजितपाणीन् स्तुतिपरांश्च दृष्टवान् श्रीकुमारपालभूपालः । तत्र तथा-1 भूतानां तेषां दर्शनात्प्रमोदविस्मयाद्वैतक्षीरनीरधौ मग्न इव क्षणं समजनि भूजानिः ॥ ततश्चौलुक्यमादाय, हेमसूरिः सगौ-1 रवम् । नमस्कृत्य जिनाधीशान् , तेषामग्रे निषेदिवान् ॥१॥श्रीजिना राजानं प्रोचुः____ एकस्त्वमेव भूमीन्द्र !, विवेकच्छेकमानसः। यो मुक्तवानिमं धर्म, वधकालुष्यदूषितम् ॥१॥धर्मः सर्वदयामूलः, एव प्रामाण्यमश्नुते । तस्माद्धान्ति परिहत्य, दयाधर्मे स्थिरीभव ॥२॥ अयं गुरुः सर्वदैवतावतारः, एतदुक्तं देवादितत्त्वं समाराधय । पूर्वजा अपि प्राहुः, वयमद्य त्वयैव पुत्रिणः संजाताः, यस्त्वं कापथवर्जनेन जिनधर्मपथं भेजे । अतः परम्जिनो देवो गुरुः साधुर्धर्मः सर्वदयामयः। एतत्तत्त्वं परिज्ञाय, गृहीत्वा च समाचर ॥ १ ॥ इत्यादि निगद्य-गतेषु तेषु सर्वेषु, दोलायितमनःस्थितिः । गुरून् पप्रच्छ राजेन्द्रः, शुद्धतत्त्वजिघृक्षया ॥२॥ अत्रान्तरे सूरिः, राजन् ! इन्द्रजाल-18 NAAMKARACHAR Jain Education Intemanona For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy