SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपाल अभियावचनमाकतवास्थितिताना मलम अथ पुरा सिद्धराजराज्ये पाण्डित्ये स्पर्द्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठामसहिष्णुःयूकालिक्षशतावलीवलवलल्लोलललत्कम्बलो, दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नासावंशनिरोधनागिणगिणत्पाठप्रतिष्ठास्थितिः, सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥१॥ इति तदीयममन्दनिन्दावचनमाकर्ण्य प्रभुभिरभिहितं पण्डित ! विशेषणं पूर्वमिति भवता नाधीतम् । अतोऽतः परं| सेवडहेमड इति अभिधेयमिति । कुन्तपश्चाद्भागेन तदाहत्य मुक्तः । श्रीकुमारपालराज्येऽशस्त्रवध इति तद्वृत्तिच्छेदः । कारितः । स ततः परं कणभिक्षया वृत्तिं कुर्वाणः प्रभुपौषधशालायाः पुरतः स्थितोऽनेकभूपतितपस्विभिरधीयमानं श्रीयोगशास्त्रमाकाशठतयाऽपठदिदम् आतङ्ककारणमकारणदारुणानां, वक्रेषु गालिगरलं निरगालि येषाम् । तेषां जटाधरफटाधरमण्डलानां, श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥१॥ इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्तिं प्रसादीकृतवन्तः । अथैकदा सोमेश्वरपत्तने कुमारविहारे वृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाणः प्रभोरप्रसादाअष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यक प्रौढिं प्राप्य प्रभून सिषेवे । कदाचिच्चतुर्मासकपारणके प्रभूणां पदयोादशवन्दनादनु चतुर्मासीमासीत्तव पदयुगं नाथ ! निकषा, कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् । इदानीमुद्भिद्यन्निजचरणनिलोठितकले !, जलक्लिन्नरन्नैर्मुनितिलक ! वृत्तिर्भवतु मे ॥१॥ ॥७६n Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy