________________
|र्वप्रच्छादवस्त्रनिमित्तसंजाताभिमानवशात् सपादलक्षं प्रति सैन्यं सज्जीकृत्य श्रीवाहडाम्बडानुजन्मा श्रीचाहडनामा मन्त्री दानशौण्डतया भृशं दूषितोऽपि बाढमनुशिष्य श्रीकुमारपालदेवेन सेनापतिश्चक्रे । तेन प्रयाणद्वित्रयानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाध्यक्षालक्षद्रव्ये याचिते सति नृपादेशात्तस्मिन्नददाने तं कशाप्रहारेणाहत्य कटकान्निरवासयत् ।। स्वयं यदृच्छादानः प्रीणितार्थिलोकश्चतुर्दशशतीसंख्यासु करभीष्वारोपितैः सुभदैः समं संचरन शीघ्र स्तोकप्रयाणे रात्री |विम्बेरानगरप्राकारमवेष्टयत् । तस्मिन् पुरे तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्ति, इति कुतोऽप्यधिगम्य तद्विवाहार्थ तस्यां निशि स्थित्वा प्रातः प्राकारपरावर्तमकापीत् । तत्र गृहीताः सुवर्णकोट्यः सप्त, एकादशसहस्राणि वडवानाम् , प्राकारं घरट्टैचूणींचकार, इति संपत्तिगी विज्ञप्तिका वेगवत्तरैर्नरैर्नृपं प्रति प्राहिणोत् । स्वयं तत्र देशे श्रीचौलुक्यनृपतेराज्ञां दापयित्वाऽधिकारिणो नियोज्य व्याधुटितः । सप्तशती कलावतां तन्तुवायानामादाय श्रीपत्तनं प्रविश्य राजसभामधिगम्य नृपं प्रणनाम । नृपस्तदुचितालापावसरे तद्गुणरञ्जितोऽप्येवमवादीत् । तव स्थूललक्षतैव महदूषणं रक्षामन्त्रः नो चेच्चक्षुर्दोषेण ऊर्द्ध एव विदीर्यसे । यं व्ययं भवान् कुरुते तादृक् कर्तुमहमपि न प्रभूष्णुः । स चाहडमन्त्री इति श्रुतनृपादेशो नृपं प्रति तथ्यमेव समादिष्टं देवेन । एवंविधं व्ययं कर्तुं प्रभुन प्रभवति, यतोऽहं स्वामिबलेन व्ययं करोमि । स्वामी तु कस्य वलेन ? अतो मयैवेयद्रव्यव्ययः साधीयान् क्रियते, इति वदन् प्रमुदितेन राज्ञा सत्कृतो राज|संसद्यनयंतां लभ्यमानो राजघरट्टबिरुदं लब्ध्वा नृपतिविसृष्टः स्वं पदं प्रपेदे । तस्य कनीयान् भ्राता स्वकीयौदार्यावर्जि-18 तसमस्तराजवर्गः सोलाकनामा सामन्तमण्डलीसत्रागारमिति बिरुदं बभार ॥
CRECANCIENCECAME
464
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org