SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ | इति विज्ञपयन् तत्कालागतेन राज्ञा प्रसन्नान् प्रभून विमृश्य स पुनरपि तत्पददानपात्रीकृतः । एवमनेकधर्मनिन्दकप्रबोधा ज्ञेयाः । अथैकदा हेमाचार्यः श्रीकुमारपालभूपं प्रत्युपदेशमाह, यथा देवं श्रेणिकवत्प्रपूजय गुरु वन्दस्व गोविन्दवद्दानं शीलतपःप्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् । श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा, धर्मे कर्मणि कामदेववदहो! चेतश्चिरं स्थापय ॥१॥ तत्र चपुरा राजगृहे राजा, श्रेणिकः श्रावकाग्रणीः। सौवर्णैः सद्यवैरष्टशतैर्जिनमपूजयत् ॥ १॥ तादृक्सद्भक्तियोगेन, त्रिर्जिनारी वितन्वता । तेनार्जि तीर्थकृन्नामकर्म कर्ममलापहम् ॥ २॥ यदुक्तम् "जिणपूयणं तिसंझं, कुणमाणो सोहएइ सम्मत्तं । तित्थयरनामगुत्तं, पावइ सेणीनरिंद व ॥१॥" इति श्रुत्वा गुरोभूपस्त्रिर्जिनार्चापरायणः । पूजां प्राभातिकी शश्वत्स्वसौधेऽसौ विशुद्धधीः॥१॥ विदधाति तथा सायं, स्पष्टमष्टोपचारतः। मध्याह्ने श्रीत्रिभुवनपालचैत्ये तु सन्महैः ॥२॥ सा चैवम्-सर्वा जिनचैत्यमेत्य नृपतिनकोत्सवाडम्बरैर्निस्वानस्वनगर्जदम्बरमुरुस्नात्रं विधायादरात् । सामन्तैर्व्यवहारिभिः परिवृतः सर्वोपचारार्चनं, कुर्वाणः प्रतिवासरं व्यरचयज्जैनेन्द्रधर्मोन्नतिम् ॥१॥ अथैकदैवं जिनपूजनोद्यतः, कृत्वाङ्गपूजां विविधैः सुमोत्करैः। आरात्रिकस्यावसरे पुरःस्थितो, न्यभालयद्भूभृदबालभक्तियुक् ॥२॥ सद्वर्णकोल्लासविचित्रभङ्गिभृत्, सर्वर्तुपुष्पाविनियोगयोगतः। विशेषशोभानवगाहिनी तथा, पूजां सुभङ्गीसुभगीकृतामपि ॥ ३ ॥ युग्मम् ॥ तथा प्रपश्यन्निति पश्यतांगुरुर्व्यचिन्तयच्चेतसि खेदमेदुरः। मयेदमिन्दुप्रभमत्र कारितं, हर्षप्रकर्षाजिनचैत्यमुन्नतम् ॥ ४॥ परं सर्वर्तुजैः पुष्पैर्न पूजा Join Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy