SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ६९ ॥ Jain Education अत्रान्तरे लोभदम्भाभिमानादयो भुजास्फोटाटोप कोलाहलाकुलमिलामण्डलं कुर्वाणा गर्जन्ति स्म । श्रीचौलुक्यसिंहोऽपि ज्ञानदर्पणादवगतसमप्रवैरिबलप्रोत्साहोत्तेजितात्मा तृणमात्रं मोहभूपं गणयन् निजसैन्यं विनाऽपि मोहं जिगीषुः श्रीगुरुप्रसादितवज्रकवचं परिधायान्तर्द्धानकारिविंशतिवीतरागस्तव रूपदिव्य गुटिकाश्चोपयुज्य सहजान्तर्द्धानपाटवपटुश्रीमदार्यधर्मराजामात्यपुण्य केतु ज्ञानदर्पणादिस्वल्पसहायः सैन्यप्रच्छन्नवृत्त्या प्रतस्थे प्राप्तश्च क्षणादेव प्रत्यर्थिस्कन्धावारम् । राजा, भो ज्ञानदर्पण ! दर्शय मोहभूमीशाश्रयम्, येन करोमि तं हतप्रतापं हेलया । ज्ञानदर्पणः, देव ! पुरस्तादालोकमात्रादपि कातरनरकृतज्वरमिदं मोहराजसौधम् । इह प्रविश्यते, ततः प्रविष्टाः सर्वेऽपि । स्थिताः प्रच्छन्नवृत्त्या । कियछेलं दृष्टो मोहराजः परितः परिवारश्च । श्रुतास्तदुल्लापा एवम् । तथाहि मोह : “पुंस्कीटः किल कोsपि तिष्ठति स च श्रीमोहभूमीपतेः, प्राप्तो वैरिपदं रणाय हतको निःशङ्कमुत्तिष्ठते । दोर्दण्डात्रिजगद्विलुण्टन कलाशौण्डास्तदेतच्चिरा हुर्बुद्धेरसमञ्जसं व्यवसितं दैवस्य रे ! पश्यत ॥ १ ॥" अत्र पापत्वमात्यः, हे देव ! मनुष्यमात्रमिति माऽवमंस्था जगदेकवीरं श्रीचौलुक्यनृपतिं पश्य पश्य"अवातरद्धरापीठे, जनस्य सुकृतोदयात् । भावितीर्थङ्करः कोऽपि, रूपेणास्य महीपतेः ॥ १ ॥ ” मोहः सक्रोधम् - "वज्राग्निदेव क्षपिताः, यत्प्रतापेन भूभृतः । मोहः सोऽहमहो ! कष्टं शृणोम्यरिपराक्रमान् ॥ १ ॥” इति वदन् कोपवशान्मोहः समादाय खड्गमासनादुत्थाय च अरे ! वाऽसौ दुरात्मा मद्वैरिपोषकः । अत्रान्तरे रागसूनुः, तात ! किमिदमस्थानक्लेशवैशसं मयैव ननु विद्धि सिद्धमरिवधकार्यम् । यतः - For Private & Personal Use Only प्रवन्धः । ॥ ६९ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy