SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कथं स्तोतव्यः ? त्वत्प्राच्योपक्रिया अद्याप्यकृतनिष्क्रया जाग्रति, अद्यतन्याः पुनः कतमोऽस्तु निष्क्रयः ॥ सीमा सर्वोपकारेषु यत्प्राणपरिरक्षणम् । चूलेव तस्योपर्येषा, यन्मे सद्धर्मबोधनम् ॥ १ ॥ प्रक्षाल्याक्षतशीतरश्मिसुधया गोशीर्षगाढद्रवैर्लिस्वाभ्यर्च्य च सारसौरभभर स्वर्णप्रसूनैः सदा । त्वत्पादौ यदि वा वहीमि शिरसा त्वत्कर्तृको पक्रियाप्राग्भारात्तदपि श्रयामि भगवन्नापर्णतां कर्हिचित् ॥ २ ॥ इत्थं राज्ञो वचः पथातिक्रान्तकृतज्ञतया प्रभुर्भृशं तुष्टः प्राह उपदेशव्यपदेशेन राज्ञः स्तुतिम् — " क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुष्पूरोदरपूरणाय पिवति श्रोतः पतिं वाडवो, जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ १ ॥ शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चपाः ॥ २ ॥” राजन् ! अस्मद्वाक्येन सर्वतोऽमारिकुर्वता त्वया कृत एव सर्वोपक्रियाणां निष्क्रयः ॥ कष्टे त्वमीदृशेऽप्यत्र, भ्रष्टोऽर्ह - च्छासनान्न चेत् । तवास्तां तर्हि परमार्हतेति विरुदं नृप ! ॥ १ ॥ एवं श्रीगुरुदत्तं परमार्हतबिरुदं देवैरपि दुर्लभं प्राप्य प्रमुदितः कृतार्थं मन्यमानः स्वसौधमलञ्चकार । जातः पारणोत्सवः ज्ञातश्च परतीर्थिकैर्देवताकृतव्यतिकरः । हृष्टाः सज्जनाः, परिम्लाना द्विजातयः । किं बहुना - महोत्सवमयं सौख्यमयं विश्वत्रयं तदा । सर्वमासीदसीमोद्यज्जिनधर्ममहोमयम् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy