________________
कर्णदेवाग्रजक्षेमराजपुत्रः पवित्रधीः । देवप्रसाद इत्यासीद्दधिस्थल्यां कृतस्थितिः॥२॥ तत्पुत्रस्त्रिभुवनपालः, तस्य पुत्राः कुमारपालमहीपालकीर्तिपालाः । तेषु__कुमारपालस्त्वद्राज्ये भविता विश्वविश्रुतः। यः संप्रतिरिवावन्यां जैन धर्म तनिष्यति ॥३॥
इति सूरिवचसा वजाहत इव यात्रापवित्रात्मा पत्तनमाजगाम । अथाम्बादेशसंवादचिकीर्गणकानिमान् पप्रच्छ । तेऽपि तात्कालिकलग्नवलादम्बोक्तानुसार्येव प्रोचुः । तदनु कस्यापि पुरोधसो वचसा सोमनाथमारिराधयिषुः पादचारेण कापोती वृत्तिं कुर्वाणो गङ्गोदककुम्पकावानीय केदारपुत्रवद्देवपत्तनं गतः। प्रभासे स्नात्वा व्यहमुपोषितो भोगपूजादिभिः सोमनाथमतोपयत् । ततः प्रत्यक्षीभूतः शम्भुः पुत्रार्थ प्रार्थितः॥
ध्यात्वा सोमेश्वरोऽवोचत्तव नास्त्येव सन्ततिः। राज्याहस्तु पुराऽप्यस्ति कुमार स्फारविक्रमः ॥१॥ पुनः प्रोचे नृपो दीनस्त्वं श्रुतोऽभीष्टदायकः। दत्से न पुत्रमप्येकं कीदृक् तेऽभीष्टदातृता ॥२॥
ततः पुत्राप्तियोग्यता नास्ति तवेत्युक्त्वा तिरोहितो देवः।। एवं गाङ्गोदकैनैकभोगैस्तुष्टे महेश्वरे । इष्टं नाप नृपः क्वापि भाग्यायत्ता हि सिद्धयः॥१॥ यतः
"नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगाः, विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः ।
फलं कर्मायत्तं यदि किममरैः ? किं च विधिना?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥१॥" इत्यादि ध्यात्वा खेदमेदुरः पत्तनं प्राप्तः। तदनु राज्याहे कुमारं यदि मारयामि तदा कदाचित् सोमेशो राज्यपाल
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org