________________
प्रवन्धः ।
कमारपाल बुद्धिर्विवर्तते तावदपायमध्ये । मनः स्वमर्थेषु विघट्टनीयं, न ह्याप्तवादा नभसः पतन्ति ॥३॥ आगमेन च युक्त्या
च, योऽर्थः समधिगम्यते । परीक्ष्य हेमवदाह्यः, पक्षपातग्रहेण किम् ॥ ४ ॥ श्रोतव्ये च कृतौ कणों, वाग बुद्धिश्च विचा॥५३ ॥ रणे । यः श्रुतं न विचारत, स कार्य विन्दते कथम् ? ॥ ५॥ नेत्रनिरीक्ष्य विपकण्टकसर्पकीटान् , सम्यक् पथा ब्रजति
हतान् परिहत्य सर्वान् । कुज्ञानकुश्रुतिकुदृष्टिकुमार्गदोषान् , सम्यग् विचारयत कोऽत्र परापवादः ? ॥६॥ इत्यादि
माहुः ॥ तदनु श्रीचौलुक्यः सर्वदर्शनराजगुरुपुरोधःप्रभृतिद्विजसमक्षं सौवर्णी श्रीशान्तिप्रतिमां कारयित्वा देवतागृहे स्थापितवान् , पूजापरश्चाभूत् । परमीश्वरादयोऽपि कुलक्रमायातत्वेन शुद्धदेवत्वेन जिनेन्द्रोऽपि च सततं पूज्यते स्म राज्ञा ।।
ततः सोमेश्वरीं वाणी, स्मरन् संजातप्रत्ययः । सूरिपदाम्बुजं भक्त्या, भजति स्म स हंसवत् ॥१॥ कदाचिद्वदिसतिं गत्वा, सदस्याकार्य कर्हिचित् । शुद्धधर्मरहस्यानि, शृणोति स्म निरन्तरम् ॥२॥
शनैः शनैर्मिथ्यात्वपराङ्मुखो द्विजवर्गे निरादरो नवश्रावकत्वं दधौ । तदनु पुरोधोराजगुर्वादिविप्रैः श्रीहेमाचार्यमहिमानमसहिष्णुभिर्देवबोधिराचार्यः समाकार्यत । अथ कोऽयं देवबोधिः ? कथमागतः ? किं कृतं तेन ? इत्युच्यते| भृगुक्षेत्रनिवासी देवबोधिः संन्यासी क्वाऽपि पर्वणि गङ्गायां स्नानार्थं गतः। तत्र पुराऽपि स्वर्णसिद्धिसिद्धसारस्वतमन्त्रो लोकेभ्यः स्वायुरन्तं ज्ञात्वा सुवर्ण ददानो दीपकाचार्यः समागतोऽस्ति । तं विनयेन सम्यक् संतोष्य सारस्वतमन्त्रं जग्राह। ततः पश्चादागत्य नर्मदाजले आकण्ठं स्थित्वा मन्त्रं जजाप षड्लक्षमितं, तथाऽपि भारती नागात् । रुष्टोऽक्षमालां नभस्यक्षैप्सीत् । सा च मन्त्रमाहात्म्यान्निरालम्बा व्योम्नि स्थिता । तां तथा दृष्ट्वा विस्मितो देवबोधिः किंचिद्यावञ्चिन्तयति
CLAOCRACANCERMER
Join Education
For Private
Personal Use Only