SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध कुमारपालx भगवानाह, राजन् ! आधाकर्मिकाभ्याहृतराजपिण्डादिदोषदूषितमिदं भक्कादि साधूनामकल्प्यमिति श्रुत्वा दूनं श्रीभ-5 रतचक्रिणं ज्ञात्वा शक्रः स्वामिनः पार्थे॥११२॥ देविंद १ राय २ गिहवइ ३ सागरि ४ साहमि ५ उग्गहो चेव । पञ्चविहो पन्नत्तो, अवग्गहो वीयरागेहिं ॥१॥ इत्येवं पञ्चविधावग्रहस्वरूपं पृष्ट्वा प्राह, राजन् ! मा विषादं कुरु, सर्वज्ञशासने सप्तक्षेत्राणि श्रीजिनभवनबिम्बागमच-टू तुर्विधश्रीसङ्घरूपाणि सन्ति । तत्र ये साधर्मिका गृहारम्भपराङ्मुखाः संयमपरिणामभाजः संवेगवैराग्यादिगुणजुषस्तेषां वात्सल्यं कुरु, इति सुरेन्द्रवचः श्रुत्वा पूर्वानीतवस्तुभिः साधर्मिकभक्तिमकरोत् श्रीभरतः। तेषां गृहारम्भादिकं निवार्य वृत्तिमकार्षीत् । गृहस्थाचारविचारवाच्यं चतुरध्यायनिबद्धं श्रावकप्रज्ञप्तिग्रन्थं जिनप्रणीतमर्थतो देशविरतास्ते पठन्ति । 'मा हनमा हन' इति परेषां कथयन्ति ते 'माहना' लोके प्रसिद्धिमगुः। कालेन तेषां वृद्धिः। ततः षष्ठे षष्ठे मास्याचारादिपरीक्षां कृत्वाऽयं ज्ञानदर्शनचारित्राचारशुद्ध इति काकिन्या रत्नेन कण्ठे रेखात्रयं कृतम् । ततः कालेन परीक्षापूर्वकं कनकसूत्रत्रय, क्रमेण रौप्यं जातम् । ततः कालेन नवमदशमजिनयोरन्तरे सकलसाधुव्युच्छेदे सति सर्वेषां लोकानामपरधर्मप्रकाशकाभावादेते गुरवः सञ्जाताः । क्रमेणाब्रह्मचारिणः कण्ठे सूत्रत्रयधारिणश्चाऽभूवन् । ततः क्रमेणोत्पन्नकेवले, दशमजिने धर्म प्रकाशयति गृहारम्भप्रवृत्तोऽब्रह्मचारी गुरुर्न भवतीत्युक्ते तेषां जिने जिनधर्मे च महान् विद्वेषोऽभूत् । मूढमतीनां लोकानामपि द्वेषमुत्पादयन्ति । ततः कालेन मिथ्यात्वं गताः। यदुक्तम् “समवसरणभत्तउग्गह--अंगुलिझयसक्कसावया अहिया । जं आवट्टइ कागिणिलंछण अणुमजणा अट्ठ॥१॥ Join Education interande For Private 3 Personal Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy