SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ****** * क्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतोषिग्गदगणं कर्तु कलिं नारदः। दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाध्यमवनीपालो हहा! वाञ्छति ॥ ७॥राज्ये नाहं गृहीष्यामि स्वदेशे स्वमपुत्रिणाम् । प्रतिज्ञायेति कुमरो गतः पाडलिपुत्रके ॥८॥ तत्र च नवनन्दकारितस्वर्णमयपर्वतादिस्वरूपं श्रुत्वाऽचिन्तयत्-येषां | वित्तैः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतद्भुवनवलयं निर्जितं लीलयैव । तेऽप्येतस्मिन् भवगुरुहूदे बुद्दस्तम्बलीलां, धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः॥९॥ एवं तावदहं लभेय विभवं रक्षेयमेवं ततस्तद्वद्धिं गमयेयमेवमनिशं भुञ्जीयमेवं पुनः। इत्याशारसरुद्धमानसमयं नात्मानमुत्पश्यति, क्रुध्यत्क्रूरकृतान्तदन्तपटलीयन्त्रान्तरालस्थितम्॥१०॥ तदनु राजगृहं गतः। तत्रस्वर्भोगभङ्गी १ नृपतिः क्रयाणकं २, सुवर्णनिर्माल्यमभूत् स्रगादिवत् ३ । भूपस्य मानेऽप्यपमानचिन्तनं ४ शालेर्महाश्चर्यकरं चतुष्टयम् ॥१॥ कृत्वा समर्घ यदि वा महय, क्रयाणकं श्रेणिकनामधेयम् । यथा तथा मातरिदं गृहाण, प्रमाणमम्बैव किमत्र पृच्छा ॥२॥ पादाम्भोजरजःप्रमार्जनमपि मापाललीलावतीदुष्पापाद्भुतरत्नकम्बलदलैयद्वल्लभानामभूत् । निर्माल्यं नवहेममण्डनमपि क्लेशाय यस्यावनीपालालिङ्गनमप्यसौ विजयते दानात्स भद्राङ्गजः ॥३॥ इत्यादिश्रीशालिभद्रधन्यकृतपुण्यादिव्यवहारिणां श्रीमदभयकुमारादिमन्त्रिणां चानेकावदातश्रवणविस्मितचेता दध्यौब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो! दुष्कर, यन्मुश्चन्त्युपभोगभाज्यपि धनान्येकान्ततो निस्पृहाः। न प्राप्तानि पुरा न संप्रति ननु प्राप्तौ दृढप्रत्ययाः, वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥१॥ *** For Private Personal use only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy