SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ ६२ ॥ इत्यादि शास्त्रदृष्टिः कथं जीवहत्यां कुर्वे ? ॥ तवापि देवि ! नो युक्तं, जीवहिंसाविधापनम् । देवता हि दयागृह्याः, शास्त्रे लोके च विश्रुताः ॥ १ ॥ यदि सत्यतयाऽसि त्वं ममेह कुलदेवता । तदा जीवदयाकार्ये, साहाय्यं कर्तुमर्हसि ॥ २ ॥ कर्पूरादिमयो भोगस्तव चक्रे मयोचितः । कृमिभक्ष्याणि मांसानि न ते योग्यानि सर्वथा ॥ ३ ॥ मांसं जीववर्धन स्यात्, न जीवं हन्मि सर्वथा । तस्मात्त्वं मत्कृतैर्भोगैः, सन्तुष्टा भव सांप्रतम् ॥ ४ ॥ इति वदन्तं भूपं मूर्ध्नि त्रिशूलेन हत्वा दुष्टा तिरोऽभूत्कण्टेश्वरी । तेन दिव्यघातेन तत्क्षणमेव नृपः सर्वाङ्गीणदुष्टकुष्ठादि रोगग्रस्तोऽजनि ॥ दृष्ट्वा तत्तादृशं कुष्ठं, भूभुग् वैराग्यमागमत् । संसारे स्वशरीरे च, नार्हद्धर्मे मनागपि ॥ १ ॥ स्वकर्म खलु भोक्तव्यमवश्यमिति चिन्तयन् । कुलदेव्यामपि द्वेषं न पुपोष महामतिः ॥ २ ॥ यतः "सो पुढकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ ॥ १ ॥” अधोदय मन्त्रिणमा कार्य देवीव्यतिकरं प्राह, स्वदेहं चादर्शयत् । तद्दर्शनादेव वज्राहत इव मन्त्री हृदि शल्यितो जज्ञे । राजाह, मन्त्रिन् ! न मे कुष्ठादि वाघते किन्तु मद्धेतुकं जैनधर्मे लाञ्छनं नवम् । यतः परतीर्थिका एतज्ज्ञात्वा वदिष्यन्ति - अहो ! जिनधर्मफलं राज्ञ इहैव जातम् । अन्योऽपि कोऽपि यः स्वकुलक्रमागतं धर्मं त्यक्त्वाऽपरं धर्म करिष्यति स कुमारपाल भूपवत्कष्टपात्रमत्रापि जायते । ब्राह्मणा अपि अस्मद्देवसूर्यादि सेवया कुष्ठादि सर्व विलीयते जैनसेवया तु प्रादुःष्यात् इत्यादिवदन्तो धर्मनिन्दां विधास्यन्ति । ततो यावत्कोऽपि न वेत्ति तावद्रात्रावेव बहिरात्मानं तृणयिष्यामि वह्नौ, इति भूपोक्तिं श्रुत्वा मन्त्री प्राह, हे श्री चौलुक्यावतंस ! त्वयि जीवति राजन्वतीयं वसुमती, सर्वोपा Jain Education International For Private & Personal Use Only प्रबन्धः । ॥ ६२ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy