SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ CRICKERECALCCARECRUCI व्याजादिना मांसभक्षणलम्पटा जीवान् मारयन्तीति । देवताभ्यो जीवन्त एवाऽजमहिषा दीयन्ते रक्षापुरुषाश्च मुच्यन्ते, तत्र यदि रात्री देवता गृह्णन्ति तदा तथाऽस्तु, नो चेत्तर्हि प्रातस्तेषां विक्रयद्रव्येण भोगः क्रियते देवतानामिति गुरुवचोऽमृतैरुज्जीवितकृपाजीवितः श्रीकुमारभूपस्तथा चकार । प्रातजींवतः पशून् विलोक्य हृष्टो भूपः । हकिता देवार्चकाः।। रे दुष्टाः! ज्ञाता मया यूयमेव मांसलोलुपा जीवहिंसां कारयथ । संप्रति यथावज्ज्ञातश्रीजिनवचनः कथं ब्राह्मणराक्षसैर्भक्षणीयः?। इयन्ति दिनानि मुधैव जीववधादिपापानि कारितः। ततोऽजमहिषद्रव्यैर्देवीनां कर्पूरादिमहाभोगः सप्तम्यां कारितः।। एवमष्टम्यां नवम्यां च कारयित्वा नवमीदिने कृतोपवासः श्रीजिनेश्वरध्यानकतानो रात्रौ स्वावासे यावत्सुखमास्ते तावत्कण्टेश्वरी त्रिशूलव्यग्रहस्ताऽऽगत्य राजानमाह, हे चौलुक्य! तव कुलदेवी कण्टेश्वरी अहम् । ऐषमोऽस्मद्देयं सर्वपूर्वजैः पुरा दत्तं कस्मात्त्वया नादायि !, राजन् ! नोलचनीया कुलदेवता कुलक्रमाचारश्च प्राणान्तेऽपि । इति श्रुत्वाऽऽह नृपः, हे कुलदेवते विश्ववत्सले ! संप्रति सज्जीवदयात्मकधर्ममर्मज्ञो नाहं जीवान् हन्मि । यश्चाज्ञातधर्मतत्त्वैः पूर्वजैर्मया च जीववध-| |श्चक्रे पुरा, स ममान्तरात्मानं संतापयति । यतः "घाएण य घायसयं, मरणसहस्सं च मारणे वावि । आलेण य आलसयं, पावइ नत्थित्थ संदेहो ॥१॥ वहमारणअभक्खा .................................................. ........................................ ॥२॥ यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः॥३॥ देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । नन्ति जन्तून् गतघृणाः, घोरां ते यान्ति दुर्गतिम् ॥४॥" Jain Education International For Private & Personel Use Only ww.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy