SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे परस्त्री! यामि तथा त्यजामि मदिरां मांसं मधु म्रक्षणम् । नक्तं नाभि परिग्रहे मम पुनः स्वर्णस्य षट्कोटयस्तारस्याष्टतुलाशतानि च महार्हाणां मणीनां दश ॥२॥ कुम्भखारीसहस्रे द्वे, प्रत्येकं स्नेहधान्ययोः । पञ्चायुतानि ५०००० वाहानां, सहस्रमपि हस्तिनाम् ॥ ३ ॥ अयुतानि गवामष्टौ, ८०००० पञ्च पञ्च शतानि च । हलाट्टसझनां यानपात्राणामनसामपि ॥४॥ पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम । इतो निजभुजोपात्तां, करिष्ये पात्रसात्पुनः॥५॥ एवं कुबेरव्यवहारिऋद्धिपत्रवाचनेन हुतहृदयो राजा गृहाङ्गणे यावदागच्छति तावता कुबेरमाता गुणश्रीःपुत्तकुवेर ! गुणायर !, गओसि तं कत्थ देहि पडिवयणं । हा वच्छ ! पिच्छ लच्छी, तए विणा जाइ रायहरं ॥१॥ एतत् श्रुत्वा राजा चिन्तितवानेवम्-नरकान्तं भवेद्राज्यमित्यार्यदुदीर्यते । तन्ननं रुदतीवित्तसमाकर्षणपाप्मना ॥१॥ पृष्टवांश्च के एते स्त्रियौ ? । महाजनः-देव ! कुबेरमाता गुणधीरेषा, अपरा तु कमलश्रीस्तज्जाया । अत्रान्तरे-वीक्ष्य तत्र कुबेरस्य, जायामाक्रन्दकारिणीम् । मातरं च हहा वत्स !, व गतोऽसीति वादिनीम् ॥१॥ तत्रासन्ने च सिंहासनाधिरूढः प्राह-हे मातः ! किमेवं शोकविक्लवाऽसि ? । यतः "आकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं वान्धवानां, संबन्धश्चैकवृक्षोषितबहुविहगव्यूहसाङ्गत्यतुल्यः। प्रत्यावृत्तिम॒तस्योपलतलनिहितप्लुष्टबीजप्ररोहमाया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा मुधैव ॥१॥" इत्युपदिश्य पृष्टा, कः समायातः ? । गुणश्रीराह-वामदेवनामा मित्रम् । आकारितश्च स राज्ञा पृष्टश्च समुद्रगमनादि Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy