SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्ध: ॥४४॥ "न विना जीवघातेन, मांसं भवति कुत्रचित् । जीवघातस्तु न श्रेयांस्तस्मान्मांसं परित्यजेत् ॥१॥ न भक्षयति यो मांसं, न हन्यान्न च घातयेत् । स मित्रं सर्वभूतानां, मनुः स्वायंभुवोऽब्रवीत् ॥२॥" मनुस्मृतौ ॥ __ वर्षे वर्षेऽश्वमेधेन, यो यजेत शतं समाः। मांसानि च न खादेत, तयोः पुण्यफलं समम् ॥ १॥" स्कन्दपुराणे ॥ भोक्ताऽनुमन्ता संस्कर्ता, ऋयिविक्रयिहिंसकाः। उपकर्ता घातयिता, हिंसकश्चाऽष्टधाऽधमः॥१॥ यः स्वार्थ मांसपचनं, कुरुते पापमोहितः । यावन्ति पशुरोमाणि, तावत्स नरकं ब्रजेत् ॥२॥ परप्राणैस्तु ये प्राणान्, स्वान् पुष्णन्ति हि दुर्धियः । आकल्पं नरकान् भुक्त्वा, ते भुज्यन्तेऽत्र तैः पुनः ॥ ३ ॥ जातु मांसं न भोक्तव्यं, प्राणैः कण्ठगतैरपि । भोक्तव्यं तर्हि भोक्तव्यं, स्वमांसं नेतरस्य च ॥ ४ ॥ व मांस व शिव भक्तिः, व मद्यं क्व शिवार्चनम् ? । मद्यमांसरतानां 8 हि, दूरे तिष्ठति शङ्करः॥ ५॥ स्कन्दपुराणे ॥ | धनेन क्रायको हन्ति, उपभोगेन खादकः । घातको वधवन्धाभ्यामित्येप त्रिविधो वधः॥१॥ यथा मांसं तथा मद्यं, वैकल्याधुग्रदूषणम् । ज्ञात्वा ते वर्जयेत् प्राज्ञः, प्रेयःश्रेयःसमीहया ॥२॥ तस्मात्स्वेप्सितसिद्ध्यर्थ, मद्यं मांसं च वर्जय । इत्युक्तो गुरुणा भूपस्तदभिग्रहमग्रहीत् ॥ ३ ॥ नृपोऽसौ वीरकोटीरः, स्वर्णकोटीरनेकशः। कर्मस्थायाऽनिशं प्रेषीत् , स्वारब्धे को हि नोद्यमी? ॥४॥ अब्दद्वयन तच्चैत्यनिष्पत्त्याऽऽनन्दितो नृपः। नियमं तं परित्यक्तुं, सूरीन्द्रमनुयुक्तवान् ॥५॥ सूरिराह-चैत्ये निष्पन्नेऽपि नियमः शिवयात्रायां मोक्तुं युक्तः। एवमङ्गीकृते श्रीसूरिः स्वस्थानं प्राप । चौलुक्योऽपि सभायां सूरिगुणग्रहणमकार्षीत् । तन्निशम्य पुरोधाः क्रुधा प्रज्वलितःप्राह, राजन् ! एष शठवृत्तिर्देवचित्तवशी. ॥४४॥ Jain Educatan International For Private Personal use only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy