SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ CASSACROSALMAN करणाय त्वदिष्टं वक्ति, परमात्मनां धर्मे द्विष्टवन्नैव रज्यति, यद्येवं न तदेषोऽपि सोमेशं नमस्यितुमाकारितो देवेन सहायातु, परमुक्तोऽपि नैष्यत्येवेति । युक्तं च लघुचेतसामेतत् । यतः| "सुकुमारमहो! लघीयसां, हृदयं तद्गतमप्रियं यतः । सहसैव समुद्गिरन्त्यमी, जरयन्त्येव हि तन्मनीषिणः॥१॥" ___ ततः प्रातः सभायातान् सूरीन् पुरोधोवचःपरीक्षार्थ सोमेशयात्रायै प्रार्थितवान् ॥ तत्कथंचित् परिज्ञाय, दुरात्मत्वं पुरोधसः। चौलुक्यमाहतीकर्तु, कथयामास सूरिराट् ॥१॥ बुभुक्षितोऽपि किं राजन् !, भोजनाय निमन्त्र्यते । महात्माऽपि किमत्यर्थ, यात्रार्थ क्वचिदर्थ्यते ॥२॥ इदमेवास्ति मे कृत्यं, यत्तीर्थपरिशीलनम् । क्षणोऽपि व्यथते मां तद्विना द्यूतगतार्थवत् ॥ ३॥ एवं सूरिवचसाऽमावास्यावतारं मषीलिप्तमिव मुखं चकार पुरोहितः॥ भूभुग जगाद यद्येवं, तद्गृहाण सुखासनम् । सूरिणोचे ममानेन, किं कार्य पादचारिणः ? ॥४ ॥ गृहस्थोऽपि विविक्तात्मा, विना यानेन गच्छति । तीर्थयात्रां यतिः किन्तु, यः शश्वत्पादचारकः॥५॥ आपृच्छय तदिदानीं त्वां, स्तोकस्तोकप्रयाणकृत् । नत्वा शत्रुजयं तेऽहं, सङ्गस्ये देवपत्तने॥६॥ ततः पृष्ट्वा महीनाथ, हेमसूरिस्तदैव सः।प्रतस्थे तीर्थयात्रार्थ, सन्तो ह्यवितथोक्तयः॥७॥ । श्रीकुमारपालोऽपि महता विस्तरेण यात्रायै प्रस्थितः कतिपयैर्दिनैर्देवपत्तनसमीपे समाजगाम । श्रीहेमसूर्यागममैहत च वहींव वारिदस्य । सर्वत्र परिसरे पञ्चयोजनी विलोकिताः परं न दृष्टाः सूरयः क्वापि । विप्रा वदन्ति स्म, समुद्रे पतितो हेमसूरिः। राजापि चिन्तामापन्नः प्रातः सोमेशनमश्चिकीः प्रौढोत्सवैः प्रस्थितो यावता तावता सूरयोऽप्यागत्य धर्मा|शिषा राजानमतूतुषन् । राजाऽपि, भगवन् ! कुतः संप्रत्यागता इत्याह । सूरयोऽपि, हे श्रीचौलुक्यकुलमाणिक्य ! श्रीरैव Jain Education Intematonal For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy