________________
"इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशये, वराहो राहुर्वा प्रभवति चमत्कारविषयः । महीमेको मग्नां यदयमवहद्धन्त! सलिले, शिरःशेषः शत्रून्निगलति परः संत्यजति च ॥१॥ प्ररिवर्तिनि संसारे, मृतः को वा न जायते । स जातो येन जातेन, याति वंशः समुन्नतिम् ॥२॥" तदनु श्रीसूरिराह, राजन्! चौलुक्यकुलप्रदीप! जगति कल्पान्तस्थायिनी कीर्तिभ्यामेव प्रकाराभ्यां स्यात्, नाsन्यथा । तथाहि
"जगदनृणतां नीत्वा सम्यग् धनैरतिपुष्कलै- वनविदितं धर्मस्थानं विधाय च किंचन । विशदवदना आशाः कृत्वा यशोभिरनश्वरै-लिखति निजकामाख्या साक्षाद्धो विधुमण्डले ॥१॥" .. इति निशम्य राजाह, भगवन् ! जगदनृणीकारभाग्यं तादृशधनादिसामग्रीसाध्यं श्रीगुरुपादप्रासादायत्तं वर्तते, परं किमपि धर्मस्थानं भवदादिष्टं कारयामीति विचारावसरे सोमनाथीया देवपत्तनवासिनोऽर्चकाः समेत्य राजानं व्यजिज्ञपन् । यथा-प्रासादः सोमनाथस्य जीर्णकाष्ठत्वतोऽधुना । पतन्नस्त्यधिकल्लोलैः खातमूलस्तटदुवत् ॥१॥ भवात् स्वोद्धारवद्देव! तदुद्धारः क्रियेत चेत् । तदा कोशे वसेत्पुण्यं लोके कीर्तिश्च शाश्वती ॥२॥ तदुक्तमुररीकृत्य प्रेष्य पञ्चकुलं निजम् । चैत्यमाश्मं नृपस्तत्र सूत्रधारैरमण्डयत् ॥ ३ ॥ तदा च चैत्यशीघ्रनिष्पत्तये श्रीसूरिं पप्रच्छ । सूरिरपि | राजप्रतिबोधचिकीर्लब्धावसरः प्राह, राजन् ! निर्विघ्नशीघ्रनिष्पत्तये किंचिन्महद्वतमाद्रीयते, व्रतं च ब्रह्मचर्यरूपम् । अथेदं दुर्धरं तर्हि मांसनिषेधः सर्वपुण्यमूलं क्रियते । यदाह
en Education Interior
For Private
Personal Use Only
www.jainelibrary.org