SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कुमारपाल पप्रवन्धः। ॥४७॥ "पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेष्वहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥१॥ यो मां सर्वगतं ज्ञात्वा, न च हिंस्येत्कदाचन । तस्याहं न प्रणस्यामि, स च मां न प्रणंस्यति ॥२॥" तथा विष्णुपुराणे तृतीयेंऽशे सप्तमाध्याये पराशरः प्राह "यज्ञान् यजन् यजत्येनं, जपत्येनं जपन्नृप ! | नस्तथाऽन्यान् हिनस्त्येनं, सर्वभूतो यतो हरिः॥१॥ परदारपरद्रव्य-परहिंसासु यो मतिम् । न करोति पुमान् भूप!, तोष्यते तेन केशवः ॥२॥ यथात्मनि च पुत्रे च, सर्वभूतेषु यस्तथा । हितकामो हरिस्तेन, सर्वदा तोष्यते सुखम् ॥ ३॥ यस्य रागादिदोषेण, न दुष्टं नृप ! मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥४॥" तत्रैव यमकिङ्करसंवादे यमः"न चलति निजवर्णधर्मतो यः, सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः, स्थिरमनसं तमवेहि विष्णुभक्तम् ॥१॥ विमलमतिरमत्सरः प्रशान्तः, शुचिचरितोऽखिलसत्त्वमित्रभूतः। प्रियहितवचनोऽस्तमानमायो, वसति सदा हृदि तस्य वासुदेवः ॥२॥ स्फटिकमणिरशिलाऽमलः क्व, विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः। न हि तुहिनमयूखश्मिपुञ्ज, भवति हुताशनदीप्तिजः प्रतापः॥३॥" ॥४७॥ Jan Education Intemanona For Private Personal use only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy