________________
"सिंहो बली द्विरदशूकरमांसभोजी, संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः॥१॥" इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते प्रमुदितो नृपः। पुनः कियदिनेषु गतेषु केनापि मत्सरिणाऽभाणि, राजन् ! एते जैनाः प्रत्यक्षदेवं सूर्य न मन्यन्ते । तत्र सूरिभिरुक्तम्-अधाम धामधामैव, वयमेव हृदि स्थितम् । यस्यास्तव्यसने प्राप्ते, त्यजामो भोजनोदके ॥१॥ यस्याऽस्ते सत्यापोऽपेया एव, यतः स्कन्दपुराणान्तर्गतरुद्रप्रणीतकपालमोचनस्तोत्रे____ त्वया सर्वमिदं व्याप्तं, ध्येयोऽसि जगतां रवे !। त्वयि चास्तमिते देव!, आपो रुधिरमुच्यते ॥१॥" त्वत्करैरेव संस्पृष्टा, आपो यान्ति पवित्रताम् ।" इति ॥
यदि नीरस्य रुधिरता रात्रौ तत्र भोजनं कथं क्रियते ? शुद्धिकारिणो जलस्यैवंभावित्वादिति प्रामाण्याद्वयमेव सूर्य मन्यामहे तत्त्वतः । उक्तं च केनाऽपि___ “पयोदपटलैग्छन्ने, नाश्नन्ति रविमण्डले । अस्तंगते तु भुञ्जानाः, अहो ! भानोः सुसेवकाः॥१॥"
हे राजन् ! नायं सूर्यः, किन्तु सूर्यविमानं मण्डलाकारम् । यस्त्वेतत्पतिः स सूर्येन्द्रः श्रीजिनपतिपदभक्त एवेति ज्ञेयं तत्त्वदृष्ट्या । कदाचित् केनाप्युक्तम् , एतेऽवैष्णवाः, विष्णुमन्तरेण न मुक्तिप्राप्तिरिति श्रुत्वाऽज्ञातपरमार्थो नृपः श्रीगुरुं पृष्टवान् । गुरुरपि, हे राजन् ! सत्यमिदं, परं वैष्णवा जैना महर्षय एव सम्यगविष्णुभक्तिकारकत्वात् । यतो गीतायामर्जुनाग्रे विष्णुवाक्यम्
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org