SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ हिरण्यकशिपुं पितरं प्रति प्रहादः प्राह"उर्ध्यामस्त्युदकेषु चास्त्युडुपतावस्त्यस्ति चोष्णद्युतौ, वह्नौ दिक्षु विदिक्षु वायुनभसोस्तियश्वतिर्यक्षु च । अस्त्यन्तर्बहिरस्ति सत्यतपसोःसारेष्वसारेषु वा, सर्वत्रास्ति सदास्ति किं बहुगिरा त्वय्यस्ति मय्यस्ति च॥था इत्यादि। एवं तत्त्ववृत्त्या सर्वजीवरक्षका जैनमुनयो वैष्णवाः, न तु द्विजास्तद्विपरीताः । परमार्थतो विष्णुः स एव, यो जन्ममरणादिव्यतीतो, नित्यश्चिदानन्दमयो, ज्ञानात्मना व्याप्नोतीति विष्णुः, इति निरुक्तेर्जिन एव विष्णुः, तद्भक्तानां मुक्तिरेवेति निश्चयः। हे चौलुक्यराज ! अत्रायं परमार्थः-जीवो बहिरात्माऽन्तरात्मपरमात्मभेदेन त्रिधा । स्वशुद्धात्मसंवित्तिसमुत्पन्नवास्तवसुखप्रतिपक्षभूतेन्द्रियादिसुखासक्तो बहिरात्मा । अथवा हेयोपादेयविचारपरस्परसापेक्षनयविभागज्ञानश्रद्धानरहितो बहिरात्मा । एतद्विपरीतोऽन्तरात्मा । विमलकेवलज्ञानज्ञातलोकालोकस्वरूपो ज्ञानात्मना व्यापकत्वेन विष्णुः । परब्रह्मसंज्ञनिजशुद्धात्मभावनात्मकत्वेन ब्रह्मा । अनन्तज्ञानादिगुणैश्वर्ययोगत ईश्वरः । क्षायिकत्वेन शोभनज्ञानवत्त्वेन सुगतः। रागादिजेतृत्वाजिनः। शिवं निर्वाणं प्राप्तं येनेति शिवः । यतः| "शिवं परमकल्याणं, निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्तिपदं येन, स शिवः परिकीर्तितः॥१॥" ____ एवमनन्तनामभिर्वाच्यः परमात्मा वीतराग एव । लौकिकैः सहस्रनाममात्रानुरक्तहृदयैः परमार्थविमुखैराख्यायते *वैष्णवानां मुक्तिरिति हृदयम् । यदुक्तम् जिन एव महादेवः, स्वयंभूः पुरुषोत्तमः। परात्मा सुगतोऽलक्ष्यो, भूर्भुवःस्वस्त्रयीश्वरः ॥ १॥ त्रैगुण्यगोचराः संज्ञा Jain Education Manal For Private & Personal Use Only Ljainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy