SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कमारपाल प्रबन्धः । ॥४८॥ बुद्धेशानादिषु स्थिताः । या लोकोत्तरसत्त्वोत्था, सा सर्वापि परं जिने ॥२॥ रोहणानेरिवादाय, जिनेन्द्रात्परमात्मनः। नानाभिधानि रत्नानि, विदग्धैर्व्यवहारिभिः ॥ ३ ॥ सुवर्णभूषणान्याशु, कृत्वा स्वस्वमतेष्वथ । तत्तद्देवेष्वाहितानि, कालात्तन्नामतामगुः ॥ ४ ॥ यद्वा-अमृतानि यथाऽब्दस्य, तडागादिषु पाततः। तज्जन्मानि जनाः प्राहुर्नामान्येवं तथाहतः॥ १ ॥ लोकाग्रमधिरूढस्य, निलीनानि हरादिषु । तेषां सत्कानि गीयन्ते, लोकैः प्रायो बहिर्मुखैः॥२॥ किञ्च तान्येव नामानि, विद्धि योगीन्द्रवल्लभम् । यानि लोकोत्तरं सत्त्वं, ख्यापयन्ति प्रमाणतः ॥३॥ अपि नामसहस्रण, मूढो हृष्टः स्वदैवते । बदरेणापि हि भवेत्, शृगालस्य महो महान् ॥ ४ ॥ अथाऽन्यदा सभायां निषण्णे राजनि कोऽपि मत्सरी प्राह, राजन् ! एते जैना वेदान्न मन्यन्ते, अतो वेदवाह्या न नमस्काराहाः । अत्र किम् ? इति राज्ञोक्त सूरिः ग्राह, राजन् ! वेदाः कर्ममार्गप्रवर्तकाः, वयं तु नैष्कर्ममार्गयायिनः, अतः कथं वेदप्रामाण्यम् ? । यदुक्तमुत्तरमीमांसायाम् "वेदा अवेदाः, लोका अलोकाः, यज्ञा अयज्ञाः” इत्यादि ॥ अविद्या पठ्यते वेदे, कर्ममार्गपितामहः । तत्कथं कर्मणो मार्ग, त्वं तु मामुपदिश्यसि ॥ १ ॥ रुचिप्रजापतिस्तोत्रे पुत्रवाक्यम् । किञ्चयदि वेदेषु जीवदयाऽस्ति तर्हि सकलशास्त्रसंवादशुद्धां जीवदयां कुर्वाणाः कथं वेदबाह्याः १ । यदाहुः "अहिंसा प्रथमो धर्मः, सर्वशास्त्रेषु विश्रुतः। यत्र जीवदया नास्ति, तत्सर्वं परिवर्जयेत् ॥१॥ ॥४८॥ Jain Educaton Intemanona For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy